________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
8
पराशरमाधवः ।
[ १०,या का।
"यएवं विद्यात्, म संवत्सरमुपयन्ति"*-इति वृद्धिकामस्य सत्रं विधातुं प्रथमतः,-"गा-सत्रं वै मंवत्सरः” इति प्रशंसा कृता, तां सम्भावयितुं 'गावोवा'-इत्यादि पठितम्। न चैतस्थार्थवादस्य, "यदै किञ्च मनुरवदत् तद्भेषजम्" इत्यादिवत् स्वार्थेऽपि तात्पर्य वर्णयितुं शक्यम् । प्रत्यक्षेण श्रुत्यन्तरेण च विरुद्धन्वात्(१) । तिरश्चां हि मन्त्रोच्चारणे कानुष्ठाने च मामाभावः प्रत्यक्ष-सिद्धः । श्रुत्यन्तरेच,"अथेतरेषां पशूनां अशनाया-पिपासे वा अभिज्ञानी वदन्ति, न विज्ञातं पश्यन्ति, न विदुः श्वस्तनम्” इति पशूनां विवेकाभावं दर्शयति। अस्तु वा, अम्यार्थवादस्य स्वार्थे तात्पर्य्यम् , गो-शब्देन गवाभिमानि-देवतानां विवक्षितत्वात्। अतएव "अभिमानि-व्यपदेशस्तु" (शा० २ १०१पा० ५०) इति सूत्रे भगवान् वादरायण: सर्वेषां मृदादि-वस्तूनां श्रुतिमूलत्वेनाभिमानि-देवताः प्रतिपादयामास । सर्वथा, मनुष्यमात्राधिकारकं स्पतिशास्त्रम् । __ 'हितम्'-दूति, अनेन शब्देन प्रयोजनं निर्दिश्यते । अभिमनफल-साधनत्वं हि धर्मस्य हितत्वम्। तच्च फलं वेधा;-ऐहिकमामुभिकञ्च,(२)-इति। अष्टकादि-साध्यं(६) पुठ्यादिकमैहिकम् । श्रामुभिक
* स य एवं विद्वान् संवत्सर मुयन्ति,--इति स. से० पुस्तकयाः पाठः + न विज्ञातं,-ति स० से० पुस्तकयोः पाठः ।
(१) विरुद्धानुवादरूपस्यार्थवादस्य न खार्थ प्रामाण्यमिति पूर्वोक्तमत्र
स्मर्त्तव्यम्। (२) अमग्मिन्-परलोके भवमामुभिकं पारलौकिकमित्यर्थः । (२) "अएका रात्रिदेवता पुटिकम' (३ प्र०१, का०१, रसू०) इति
गोभिलसूत्रादरकायाः पुरिसाधनत्वं वाध्यं ।।
For Private And Personal