________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५५०
पराशरमाधवः तदप्युक्तरीत्या वाग्दण्डाद्यभिप्रायम् । यदपि, - ___“लिङ्गन्तु वैणवं तेषां त्रिदण्डं सपवित्रकम् " - इति यष्टि-त्रयाभिधानं, तदपि वहूदक-विषयत्वेनोपपन्नम्। योहि वहूदक एव सन् ग्रामैकरात्रादिकां* हंसवृत्तिमाचरति, स वृत्तितो हंसो भवति । वेदान्त-श्रवणादिकां परमहंसवृत्तिं चेदाश्रयति, तदा वृत्तितः परमहसो भवति। तेषां हसादीनां त्रिदण्डमेव लिङ्गम् । अननवाभिप्रायेण, - ___"वृत्तिमैदेन भिन्नाश्च नैव लिने न ते द्विजाः' - इति । अन्यथा मुख्ययोहसयोरेकदण्ड-विधायकान्युदाहृतानि वचनानि निविषयाणि स्युः। तस्मादेक एव दण्डः परमहंसस्य। ननु. परमहसोपनिषदि एकदण्डोऽप्यमुख्येनैव श्रूयते। “कौपीनं दण्डमाच्छादनञ्च स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च परिग्रहेत् , तच्च । न मुख्योऽस्ति, को मुख्य इति चेदयं मुख्यो न दण्डं न शिक्यं नाच्छादनं चरति परमहसः' - इति। वाढम् । नास्त्येव विद्वत्-परमहंसस्य वाह्ययष्टयुपयोगः। अतएव वाक्यशेषे ज्ञानमेव तस्य दण्डः, - इत्युक्तम् ,
"ज्ञानदण्डोधृतो येन एकदण्डी स उच्यते” - इति । यष्टि-धारणन्तु विविदिषोः परमहसस्य। न च विद्-विविदिषुभेदेन पारमहस्य-द्वविध्ये मानामावः शनीयः। वाजमर्न यिव्राह्मणे तदुपलम्भात्। “एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रषणायाश्च वित्तैषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्ति" - इति विद्वत्संन्यासे प्रमाणम। एतमेव विदित्वा मुनिर्भवत्येतमेव
* ग्रामैकरात्रिकां, - इति मु० पुस्तके पाठः । विस्य, - इति मु० पुस्तके पाठः ।
For Private And Personal