________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५४७
पराशरमाधवः कथञ्चास्योपस्पर्शनम्” - इति प्रश्नः। “इदमेवास्य यज्ञोपवीतं यदात्मध्यानं विद्या शिखा” - इत्याच त्तरम् । व्राह्मण्यन्तु विज्ञानमय शिखायज्ञोपवीतिन एव पुष्कलम् , - इति पिप्यलादश्रुता. वुदाहृतम् । - केचिन्तु परमहंसस्यापि त्रिदण्डमिच्छन्ति, उदाहरन्ति च वचनानि। तत्र दक्षः, सर्वेषामाश्रमिणां क्रमेण लक्षणमभिदधानः "त्रिदण्डनयतिश्चैव” – इति यतेर्लक्षणमभिधाय, त्रिदण्डरहितस्य यतित्वं निषेधति, -
“यस्यैतल्लक्षणं नास्ति प्रायश्चित्ती न चाश्रमो” -- इति । हारीत-दत्तात्रय-पितामहाः कुटीचरादीन् चतुरोऽप्युपन्यस्य सर्वेषां त्रिदण्डमेव विदधते, -
“वृत्तिभेदेन भिन्नाश्च नैव लिङ्गन ते द्विजाः। लिङ्गन्तु वैणवं तेषां त्रिदण्डं सपवित्रकम्” - इति ।
अविरपि, -
"शिखिनस्तु श्रुताः केचित् केचिन्मुण्डाश्च भिक्षुकाः ।
चतुर्दा भिक्ष काः प्रोक्ताः सर्वे चैव त्रिदण्डिनः" - इति । एकदण्ड-वचनानि तु त्रिदण्डालाम-विषयाणि । तदाह मेधातिथिः, -
“यावन्न स्युस्त्रिदण्डास्तु तावदेकेन पर्यटेतू” – इति । हारीतोऽपि, -
"नष्टे जलपवित्र वा त्रिदण्डे वा प्रमादतः । एकन्तु वैणवं दण्डं पालाशं वैल्वमेव वा। गृहोत्वा विवरेत्तावद्यावल्लम्येत् त्रिदण्डकम्” -- इति ।
For Private And Personal