________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
५४७
अग्निहोत्र-विनाशे तु जुहादीनि यथा त्यजेत् ॥ यथा च मेखलादीनि गृहस्थाश्रम-वाञ्छया। पत्नी योक्त्र यथेष्टयन्ते सोमान्ते च यथा ग्रहान् ॥ तद्वद्यज्ञोपवीतस्य त्यागमिच्छन्ति योगिनः" -- इति ।
विश्वामित्रोऽपि, – “अथापरं परिव्राजकलिङ्ग सर्वतः परिमोक्षमेके सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्यात्मानमन्विच्छेत् शिखा-यज्ञोपवीत कमण्डलु-कपालानां त्यागी"-इति। बौधायनोऽपि । “अतऊद्ध यज्ञोपवीतं मन्त्रमाच्छादनं यष्टयः शिक्यं जलपवित्र कमण्डलं पात्रमित्येतानि वर्जयित्वा वैणवं दण्डमादत्ते सखामगोपाय" -- इति । स्मृत्यन्तरे)पि, -
“यदा तु विदितं तत् स्यात् * परब्रह्म सनातनम् ।
तदैकदण्डं संगृहा उपवीतं शिखां त्यजेत्” - इति । अत्र केचिदाह्रः। उपवीत-त्यागवचनानि पुरातन यज्ञोपवीतविषयाणि। तथा च स्मृतिः। “नखानि निकृत्य पुराणं वस्त्रं यज्ञोपवीतं कमण्डलु त्यक्त्वा नवानि गृहोत्वा ग्रामं प्रविशेत्” - इति। यदाऽऽचमनाङ्ग यज्ञोपवीतं न स्यात् तदा ब्राह्मणादेव होयते। तस्मादस्ति परमहंसस्यापि यज्ञोपवीतम् ,- इति ।
तदयुक्तम्, उदाहतस्मृतेर्बहृदकादि विषयत्वात् । “न यज्ञोपवीतं नाच्छादनञ्चरति परमहंसः”- इति श्रुतेः। “अयज्ञोपवीती शौचनिष्ठः काममेकं वैगवं दण्डमादधीत” - इति श्रुत्यन्तराच्च । न च ब्राह्योपवीतमन्तरेणाचमनाद्यसम्भवः, कौषीतकिब्राह्मणे प्रश्नोत्तराभ्यां तदुपपादनात्। “किमस्य यज्ञोपवीतं का शिखा
* तत्त्वात्, इति मु० पुस्तके पाठः ।
For Private And Personal