SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५४६ www.kobatirth.org व्यासस्मृतावपि - पराशर माधवः सूचनात् सूत्रमित्याहः सूत्र' नाम परंपदम् । तत्सूत्र' विहितं येन स विप्रो वेदपारगः ॥ येन सर्व्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्र धारयेद्योगी योगवित्तत्त्वदर्शिवान् ॥ वहिः सूत्र' त्यजेद्विद्वान् योगसूत्र' समास्थितः । ब्रह्मभावमिदं सूत्रं धारयेद्यः स चेतनः ॥ धारणादस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत् । सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥ ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः । ज्ञान शिखाज्ञाननिष्ठाज्ञानयज्ञोपवीतिनः ॥ ज्ञानमेव परं तेषां पवित्र ज्ञानमुच्यते । अग्नेरिव शिखा नान्या यस्य ज्ञानमयो शिखा ॥ सशिखीत्युच्यते विद्वान्नेतरः केशधारणैः । कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । एमिर्धार्य्यमिदं सूत्र क्रियाङ्ग' तद्धि वै स्मृतम् । शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ॥ ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः । इदं यज्ञोपवीतन्तु परमं यत्परायणम् ॥ विद्वान् यज्ञोपवीती स्यात् यज्ञास्तं यज्वनं विदुः" - इति । Acharya Shri Kailashsagarsuri Gyanmandir "यज्ञोपवीतं कर्म्माङ्ग' वदन्त्यु तमबुद्धयः । उपकुर्व्वाणकात् पूर्वं यतो लोके न दृश्यते ॥ यावत् कर्माणि कुरुते तावदेवास्य धारणम् । तस्मादस्य परित्यागः क्रियते कर्म्मभिः सह ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy