SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ५४५ स्थण्डिलेष्वनिकोतवानप्रयत्नो निर्ममः शक्लध्यानपरायणोऽध्यात्मनिष्ठोऽशुद्धकर्म-निर्मूलन-परः संन्यासेन देहत्याग करोति स परमहंसो नाम" - इति । तस्यामेव च श्रुतौ जनक-याज्ञवल्क्य-संवाद-रूपेण यज्ञोपवीतत्यागमाक्षिप्य समाहितम्। “पृच्छामि त्वां याज्ञवल्क्य नायज्ञोपवीती कथं ब्राह्मण इति । स होवाच याज्ञवल्क्यः इदमेवास्य यज्ञोपवीतं यः आत्मेति" - इति । आरुणिश्रुतावपि पारमहंस्यं प्रपञ्चितम् । "आरुणिः प्रजापतेर्लोकं जगाम तं गत्वोवाच केन भगवन् कण्यिशेषतो विसृजानीति। ते होवाच प्रजापतिः तव पुत्रान् भ्रातृन् वन्ध्वादीन् शिखायज्ञोपवीते यागं सूत्र स्वाध्यायञ्च भूलॊकं भूवलोकं स्वर्लोकं महोलोकं जनलोकं तपोलोकं सत्यलोकं चातल-वितल. सुतल तलातल-महातल-रसातल-पातालं ब्रह्माण्डच विसर्जयेत्। दण्डमाच्छादनं कौपीनं परिगृहेत्, शेषं विसृजेत्। ब्रह्मचारी गृहस्थो वानप्रस्थो वा लौकिकाग्नीनुदराग्नौ समारोपयेत्। गायत्री च शरीराग्नौ * समारोपयेत्। उपवीतं भूमौ वाप्सू वा विसृजेत् ।। दण्डान् लोकाग्नीन् विसृजेदिति होवाच। अत ऊद्धममन्त्रवदाचरेदूद्धगमनं विसृजेत्रित्रसन्ध्यादौ स्नानमाचरेत्। सर्वेषु देवेष्वाचरणमावर्तयेदुपनिषदमावर्त्तयेत्” -- इति। मैत्रावरुणश्रुतवपि । “इन्द्रस्य वजोऽसीति त्रीन्वैणवान् दण्डान् दक्षिणपाणी धारयेदेकं वा, यद्य कं तदा सशिखं वपनं कृत्वा विसृज्य यज्ञोपवीतम्” - इति । पिप्पलाद शाखायामपि, - “सशिवं वपनं कृत्वा वहिःसूत्र त्यजेद्वधः। यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥ * स्वभावाचानौ, - इति मु० पुस्तके पाठः । i कुटोचको ब्रज्ञचारो कुटुम्वं विसृजेत् विप्रत्वं विसृजेत् पात्र विसृजेत्, - इत्यधिकः पाठः मु० पुस्तके । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy