SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५३४ पराशरमाधवः अत्र केचित् , ब्राह्मणस्यैव संन्यासाधिकारी न क्षत्रिय-वैश्ययोः, - इत्याहुः । उदाहरन्ति च श्रुति-स्मृती। तत्र वाजसनेयकब्राह्मणम् । “एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रषणायाश्च वित्तषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्यञ्चरन्ति" -- इति। मनुरप्युपक्रमोपसंहारयोर्ब्राह्मणशब्दं प्रयुङ्क्ते, - "आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रब जेद् गृहात्” । इत्युपक्रमः। __ “एष वोऽभिदितो धर्मो ब्राह्मणस्य चतुर्विधः” । इत्युपसंहारः। नारदोऽपि, - “प्रथमादाश्रमाद् वापि विरक्तो भव-सागरात् । ब्राह्मणो मोक्षमन्विच्छंस्त्यक्त्वा सङ्गान् परिब्रजेत् ॥”- इति । योगियाज्ञवल्क्योऽपि, - "चत्वारो ब्राह्मणस्योक्ता आश्रमाः श्रुति चोदिताः। क्षत्रियस्य त्रयः प्रोक्ता द्वावेको वैश्य-यूद्रयोः ॥" - इति । वामनपुराणेऽपि, - "चत्वार आश्रमाश्चैते ब्राह्मणस्य प्रकीर्तिताः । गार्हस्थ्यं ब्रह्मचर्यच वानप्रस्थं त्रयोऽऽश्रमाः॥ क्षत्रियस्यापि कथिता य आचारा द्विजस्य हि। ब्रह्मचर्यञ्च गार्हस्थ्यमाश्रम-द्वितयं विशः । गार्हस्थमुचितन्त्वेकं शूद्रस्य क्षणदाचर ॥" - इति ॥ ननु, शूद्रस्याश्रम एव नास्ति, "चत्वार अश्रमास्तात. तेषु शूद्रस्तु नार्हति” - इति ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy