________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
ये देवयाना उत पितृयाणाः
सर्वान् पथो अनृणा अक्षियेम" -- इति ॥ व्राह्मणमपि “सर्वान् लोकान् अनृणोऽनुसञ्चरति” - इति । मैवम् । अविरक्तविषयत्वादेतेषां वचनानाम् । अतएव विरक्तस्य प्रव्रज्यायां कालविलम्ब निषेधयति जावालश्रुतिः। “यदहरेव विरजेत् तदहरेव प्रब्रजेतू” - इति । ननु, उक्तरीत्या ब्रह्मचर्यादिषु आश्रमेषु यथावद्धर्मानुष्ठायिनां तदाश्रमात् प्रव्रजेदिति प्रतीयते। तथा सति, स्नातक-विधुरादीनामना श्रमिणामाश्रमिणाञ्च केषाचित् केनचित् प्रतिबन्धेन विदितधर्मानुष्ठायिनां सत्यपि वैराग्ये सन्न्यासो न प्राप्नुयात्। मैवम् । तेषां प्रत्यक्ष-श्रुत्यैव तविधानात्। “अन्य पुनरव्रती वा व्रती वा स्नातकोतू-सन्नाग्निरनग्निको वा यदहरेव विरजेत तदहरेव प्रब्रजेतू" - इति। यमोऽपि, -
"पुनरक्रियाभावे मृतभार्यः परिव्रजेत् ।
वनस्थो धूतपापो वा परं पन्थानमाश्रयेत् ॥” -- इति ॥ स्नातक-विधुरादीनामन्तरालवत्तिनामाश्रम-निरपौ जपोपवास-तीर्थयात्रादिकर्ममिश्चित्तशुद्धि-सम्भवेन मोक्षाश्रमेऽधिकारोऽस्तीति तृतीयाध्याये मीमांसितम् । धर्म-लोपेऽप्यनुतापवतस्तत्-प्रायश्चित्तत्वेन संन्यासः सम्भवति। तथा च स्मृत्यन्तरम्, -
“ये च सन्तानजादोषा ये च स्युः कर्म-सम्भवाः।
संन्यासस्तान् दहेत् सींस्तुषाग्निरिव काञ्चनम् ॥-इति ॥ मनुरपि, -
"मृत्तोयैः शुद्धयते शोध्यं नदो वेगेन शुद्धयति । रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमः" ॥ - इति ॥
For Private And Personal