________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५३२
पराशरमाधवः अङ्गिराअप्याह, -
"संसारमेव,* निःसारं दृष्टा सार-दिदृक्षया। प्रव्रजत्यकृतोदाहः परं वैराग्यमाश्रितः । प्रव्रजेद् ब्रह्मचर्येण प्रब्रजेच्च गृहादपि ।
वनाद्वा प्रव्रजेद्विद्वानातुरो वाऽथ दुःखितः” - इति । दुःखितो व्याधितश्चौरव्याघ्राद्य पद्रतः। आतुरो मुमूर्षुः। तत्र महाभारतम्,
“उत्पन्ने सङ्गटे घोरे चौरव्याघ्रादि-साइट। भय-भीतस्य संन्यासमणिरामुनिरब्रवीत् । आतुराणाञ्च संन्यासे न विधिर्नेव च क्रिया।
पैषमात्र समुच्चार्य संन्यासं तत्र पूरयेत्” - इति ॥ ननु, ब्रह्मचर्यादेव प्रव्रज्याऽङ्गीकारे मनु-वचनानि विरुद्धचरन् ,
"ऋणानि त्रीण्यपाकृत्य मनो मोक्ष निवेशयेत् । अनपाकृत्य मोक्षन्त सेवमानो व्रजत्यधः ॥ अधीत्य विधिवढे दान पुत्रानुत्याच धर्मतः । इष्दा च शक्तिती यज्ञमनो मोक्ष निवेशयेत्। अनधीत्य गुरोर्वेदाननुत्पाद्य तथात्मजान् ।
अनिष्ता चैव यज्ञश्च मोक्षमिच्छन् व्रजत्यधः ॥” - इति । ऋगत्रयं श्रुत्या दर्शितम् । “जायमानो वै ब्राह्मणस्त्रिभित्रणवान् जायते, ब्रह्मचर्येण ऋषिभ्यो यज्ञन देवेभ्यः प्रजया पितृभ्यः, एष वा अनृर्णीयः पुत्री यज्वा बह्मचारी वासि” - इति। यदा स्वर्गप्रापका पितृयाणमार्गोऽप्यणापाकरणमन्तरेण न सम्भवति, तदा कैव कथा मोक्षमार्गे। अतएव मन्त्रवर्णः, -
“अनृणा अथोस्मिन्ननृणाः परस्मिन् तृतीये लोके अनृणास्याम ।
संसारमेव, - इति मु० पुस्तके पाठः ।
For Private And Personal