________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पराशर साधवः
५३१
आरोहस्य प्रतिनियतत्वात् । तथा च जावला आश्रमा णामारोहमामः नन्ति । “ब्रह्मचय्यं समाप्य गृहो भवेत्, गृहो भूत्वा वनो भवेत्, वनो भूत्वा प्रव्रजेत् *" न त्वेवमवरोहः क्वचिदप्या मनातः । प्रत्युतावरोहं दक्षो निषेधति,
इति ।
" त्रयाणामानुलोम्यं स्यात् प्रातिलोम्यं न विद्यते । प्रातिलोम्येन यो याति न तस्मात् पापकृत्तमः यो गृहाश्रममास्थाय ब्रह्मचारी भवेत् पुनः । न यतिर्न वनस्थश्च स सर्वाश्रम वज्जितः” इति ॥
-
-
-
यदि गृही कथञ्चित् प्रत्यवरुह्य ब्रह्मचारी भवेत्, तदाऽसौ सर्वाश्रमवहिस्कृतः । आरूढ़ - पतितत्वात् । अतो न वनस्थादिभिराश्रमवासिभिः शब्दैरभिलाप्यो भवति । अयञ्चावरोहाभाव उत्तर
मीमांसायां तृतीयाध्याये वर्णितः ।
-
Acharya Shri Kailashsagarsuri Gyanmandir
वनाद् गृहाद्वेत्यत्र ब्रह्मचर्य्याद् वा, इत्यपि द्रष्टव्यम् । यदा जन्मान्तरानुष्ठितः सुकृति परिपाक - वलात् वाल्य एव वैराग्यमुपजायते, तदानीोमकृतोद्वाहो ब्रह्मचय्यदिव प्रब्रजेत् । तथा च जावाल श्रुतिः । "यदि वेतरथा ब्रह्मचय्र्यादेव प्रव्रजेद्र गृहाद्वा वनाद्वा * - इति । पूर्वमविरक्त वालं प्रत्याश्रम-चतुष्टय समुच्चयमायुर्विभागेनोपन्यस्य, विरक्तमुद्दिश्य यदि वेति पक्षान्तरोपन्यासः । इतरथेति वाल्य एवावरात - वैराग्य इत्यर्थः । अकृतोद्वाहस्य संन्यासो नृसिंहपुराणे दर्शितः,
"यस्यैतानि सुगुप्तानि जिह्वोपस्थोदरं शिरः सन्यसेदकृतोद्वाहो ब्राह्मणो ब्रह्मचर्य्यवान्नू”
-
For Private And Personal
इति ॥
* गृहाद्वनी भूत्वा प्रव्रजेत्, - इति मु० पुस्तके पाठः । स - इति स० पुस्तके पाठः ।
――