________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१०,या का ।
कस्यचिदर्थवादस्य स्वार्थ प्रामाण्यं भविष्यति, इति भयेन अर्थवादेक-प्रमिद्धानां स्मार्तणां मन्वदीनां मीमांसा-मात्र*-कृताजैमिनेश्च सद्भावस्यैव परित्यकव्यत्वात्। अशेषेतिहासलोप-प्रसङ्गात्(१) । तम्मात् प्रमाणमेव भूतार्थवाद:(२) । तथाच मति, “तं मनुराधत्त", "तं पूषाऽऽधत्त", "तं त्वष्टाऽऽधत्त" "तं धाताऽऽधत्त",-दूत्यर्थवादवशादाधानमपि देवानां किं नस्यात्। ब्राह्मणद्यभावे तु + कामं वमन्तादि-काल-विशेष-नियमोमाभूत किमायातमाधानस्य ? । किञ्च, अन्तरेणापि प्राधानं लौकिकेऽनौ यागः क्वचिदुपलभ्यते । "अवकीर्णि-पशुश्च तहदाधानस्थाप्राप्तकालत्वात्” (मी० अ०१ पा० २ स०) इति जैमिनिसूत्रात् । “योब्रह्मचारी स्त्रियमुपेयात् म गर्दर्भ पशुमालभेत"-दत्यवकीर्णिपरः । यथा उपनयन-होमोलौकिकानौ, तथा असौ पः, इति सूत्रार्थः । एतावता प्रयासेन देवानां कर्माधिकारे माधिते किं तव फलिव्यति? तथा मीमांसायां किं विद्यते ?। अभिनिवेश: केवलं शिष्यते,
* मीमांसा सप्र (मीमांसाशास्त्र ?) इति स. मा. पुस्तकयोः पाठः । + सद्भावस्टैवं,-इति स० स० पुस्तकयोः पाठः। + अत्र, 'ब्राह्मणत्वाद्यभावे तु'-इति पाठी भवितुं युक्तः । 5 तव वा मीमांसायां,-इति स० मे. पुस्तकयाः पाठः ।
(१) तेघामर्थवादकगम्यत्वादितिभावः । (२) विरुद्धानुवादभिन्नोऽर्थवादोभूतार्थवादः। तथा चोक्तम् । “विरोधे
गुणवादः स्यादनुवादोऽवधारणे। भूतार्थवादस्तद्धानावर्थवादस्त्रिधा मतः"-ति।
For Private And Personal