SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ५२९ यस्तु पत्न्या समं गत्वा मैथुनं कामतश्चरेत् । तद तं तस्य लुप्येत प्रायश्चित्तीयते द्विजः। नक्त बान्नं समश्नीयाद् दिवा वाऽ हृत्य शक्तितः । चतुर्थकालिको वा स्यात् स्यादा चाष्टमकालिकः ॥ चान्द्रायण-विधानैर्वा शुक्के कृष्णे च वत्तयेत् । पक्षे पक्षे समश्वीयाद्यवागू क्वथितां सकृत् ॥ पुष्पमूल-फलैर्वाऽपि केवलैवर्तयेत् सदा। स्वाभाविकैः स्वयं शोर्वेखानस-मते स्थितः” - इति । अग्नि-परिचायामक्षम प्रत्याह याज्ञवल्क्यः, - *अग्नीनप्यात्मसात् कृत्वा बृक्षावासो मिताशनः । वानप्रस्थो गृहेष्वेव यात्रार्थ भेक्ष्यमाचरेत् ॥ ग्रामादाहृत्य वै ग्रासानष्टौ भुञ्जीत वाग्यतः" - इति । मनुरपि, - "अग्नीनात्मनि वैतानात् समारोप्य यथाविधि । अनग्निरनिकेतः स्यान्मूनिर्मूलफलाशनः ॥ अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः। गृहमेधिषु चान्येषु दिजेषु वनवासिषु । ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥ एताश्चान्याश्च सेवेत दोक्षाविप्रो वने वसन् । आसां महर्षि-वय्यर्याणां त्यक्त्वाऽन्यतमया तनुम् । वोत शोक-मयो विप्रो ब्रह्मलोके महीयते" - इति । ननु, अष्ट-प्रास-विधाने, “षोड़शारण्यवासिनः” इति वचन विरुद्धयेत। तन्न, शक्ताशक्त-विषयत्वेन व्यवस्थोपपत्तेः । सर्वानुष्ठानासमर्थ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy