________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५२८
पराशरमाधवः
कवकानि चत्रकानि। तपोनियममाह याज्ञवल्क्यः , -
“दान्तस्त्रिषवण स्नायी निवृत्तश्च प्रतिग्रहात् । स्वाध्यायवान् दान-शोलः सर्व-सव्व हितैरतः ॥ दन्तोलखलिकः काल-पक्काशी वाऽवम-कुटकः । श्रौतस्मात्तं फल-स्नेहैः कर्म कुर्यात् क्रियास्तथा । चन्द्रायनैर्नयत् कालं कृच्छ वा वर्तयेत् सदा। पक्ष गते चाप्यश्नीयान्मासे वाऽहनि वा गते॥ स्वपेद्भ मौ शुची रात्रौ दिवस प्रपदैन येत् । स्थानासनविहारैर्वा योगाभ्यासेन वा तथा ॥ ग्रीष्मे पञ्चाग्नि मध्यस्थो वर्षासु स्थाण्डिलेशयः ।
अद्र वासास्तु हेमन्ते शक्त्या वाऽपि तपश्चरेत्” - इति। दन्ताएवोलूखलं निस्तुषोकरण साधनं, तद् यस्यास्ति स दन्तोलू. खलिकः । वाह्योलखलादि-साधन-निरपेक्षइत्यर्थः । काल-पक्वं-बदरेअद-पनस-फलादि। अश्मनाकुटनमवहननं यस्य, सोऽश्मकुटकः । फल स्नेहोलिकुच-मधूकादि-मध्यतर-कल-जन्मानि तैलानि । क्रिया भोजनाभ्यजनादयः। विष्णुरपि । “वायु-पुष्टाशी फलाशी मूलाशी शाकाशो पर्णाशी वायु-पक्वान्नयोर्वा सकृदश्नीयात्” - इति । कूर्मपुरोऽपि, -
"एकपादेन तिष्ठेत मरीचीन्वा पिवेत् सदा। पञ्चाग्नि-धूमपो वा स्यादुष्मपः सोमऽथवा ॥ पयः पिवेत् शुक्लपक्षे कृष्णपक्षे च गोमयम् । शीर्ण-पर्णाशनो वा स्यात् कृच्छा वर्तयेत् सदा ॥ अथर्वशिरसोऽध्येता वेदान्ताभ्यास-तत्परः। यमान सेवेत सततं नियमांश्चाप्यतांद्रितः । जितेन्द्रियो जित-क्रोधस्तत्त्वज्ञान-विचिन्तकः । ब्रह्मचारी भवन्नित्यं न पत्नों प्रतिसंश्रयेत् ।
For Private And Personal