SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ५२७ वासन्तैः शारदैर्मेध्यैर्मुन्यन्नैः खयमाहृतः। पुरोडाशं चरुञ्चैव निर्व पेद्विधि-पूर्वकम्” - इति ॥ मेध्यैर्यज्ञाहर्मुन्यन्नरकृष्ट पच्यरित्तर्थः । संग्राह्यद्रव्यस्येयत्तामाह याज्ञवल्क्यः , - "अहो मासस्य षण्णां वा तथा संवत्सरस्य वा। अर्थस्य सञ्चयं कुर्यात् कृतमाश्वयुजे त्यजेत्” - इति ॥ एकदिन-साध्यत्य कर्मणो यावत् पर्याप्तं, तावतोऽर्थस्य सञ्चयं कुर्यात् । एवमेक-मा स-संवत्सर-पक्षेऽपि योजनीयम्। तत्र यदि किञ्चित् सञ्चितमवशिष्येत्, तत् सर्वमाश्वयुज्यां त्यजेत् । यदाह विष्णुः। "मास-निचयः, संवत्सर-निचयो वा, संवत्सरनिचयात् पूर्व निचयमाश्वयुज्यां जह्यात्" - इति। संत्यज्य ततो नूतनं सचिनुयात्। मनुरपि, - "त्यजेदाश्वयुजे मासे मन्यन्नं पूर्व-सञ्चितम् । जोर्णानि* चैव वासांसि शाक-मूल-फलानि च । सद्यः प्रक्षालितोवा स्यान्मास-सञ्चयिकोऽपि वा। षण्मास-निचयोवाऽपि समा-निचयएववा" - इति ।। तत्र वर्त्यांनाह सएव, - "वजयेन्मधु-मांसानि भौमानि कवकाणि च । भूतृणं सिग्रकं चैव श्लेष्मातक फलानि च । न फाल-कृष्टमश्नीयादुत्कृष्टमपि केनचित् । न ग्रामजातान्याणि पुष्पानि च फलानि च - इति॥ * चोर्णानि, - इवि मु. पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy