________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५२६
पराशरमाधवः
शङ्ख लिखितावपि, – “पुत्रानुत्पाद्य संस्कृत्य वेदमध्याप्य बृत्ति विधाय दारैः संयोज्य गुणवति पुत्रे कुटुम्वमावेश्य कृतःप्रस्थानलिङ्गोवृत्ति-विशेषाननुक्रमेत् , क्रमशो यायावराणां गृत्तिमुपास्य वनमाश्रयेदुत्तरायणे पूर्वपक्षे” – इति । एतच्चाश्रम-समुच्चय-पक्ष द्रष्टव्यम् । असमुच्चयपक्षे त्वकृत-गार्हस्त्योऽपि वानप्रस्थेधि. क्रियते। तदाह वसिष्ठः, - “चत्वार आश्रमा ब्रह्मचारि-गृहस्थवानप्रस्थ परिव्राजकाः। तेषां वेदमधीत्य वेदं विदित्वा चीर्ण-ब्रह्मचर्यो यमिच्छेत् तमावसेतू”-इति । आपस्तम्वोऽपि,-"चत्वार आश्रमागार्हस्थ्यं आचार्यकुलं मौनं वानप्रस्थम्”- इत्युपक्रम्य, “यत्कामयेत, तदारभेत”-इत्युपसंहरति । वन-प्रतिष्ठस्य कर्त्तव्यमाह याज्ञवल्क्यः ,
“अ-फाल-कृष्टेनानोश्च पितृन् देवतिथीनपि ।
भृत्यांश्च तर्पयेच्छश्वज्जटा-लोम-मृदात्मवान* - इति । अ-काल-कृष्टं शाक-मूल-नोवारादि। तथाच मनुः, -
"मुन्यन्नविविधैमैध्यैः शाक-मूल-फलेन वा।
एतैरेव महायज्ञान् निर्वपेदिधि-पूर्वकम्” -- इति । नच, ब्रह्मचारि-विधुरयोरनग्निकयोर्वनस्थयोः कथमग्नीनां तर्पणमिति वाच्यं, वैरवानस-शास्त्रोक्तस्याग्नेः सद्भावात्। नचाफालकृष्टनोवारादिना पुरोडाश करणे 'व्रीहिभिर्यजेत' - इति श्रुतिर्वाध्येतेति शनीयम् । ब्रोहीणामप्यफालकृष्टानां सम्भवात्। तस्मादकृष्टपच्यैर्वोह्यादिभिर्वैतानिकं कर्म कुर्य्यात्। तथा च मनुः -
"वैतानिकञ्च जहूयादग्निहोत्र यथाविधि । दर्शमस्कन्दयन् पर्वं पौर्णमास्यां प्रयोगतः । ऋक्षष्ट्याग्रहावणं चैव चातुर्मास्यानि चाहरेत् । उत्तरायण च* क्रमशोदक्षस्यायनमेवच ॥
* तुलायनन्द, -इति स० पुस्तके पाठः ।
For Private And Personal