________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
५२५ वैतानिक-गृह्याभ्यामग्निभ्यां सह गच्छेत् । सुत निक्षेप-पक्षे त्वात्मनि अग्नीन् समारोप्य प्रब्रजेत्। तदाह छागलेयः, -
_“अपत्नीकः समारोप्य व्राह्मणः प्रव्रजेद गृहातू” - इति । तादृशोऽरण्यं गत्वा वैरवानस-सूत्रोक्त-मार्गेणाग्निमादध्यात् । तदाह वसिष्ठः। “वानप्रस्थो जटिलरचीराजिनवासान फाल-कृष्टमधितिष्टे । दकृष्ट-मूल-फलं सञ्चिन्वीतोद्ध रेताः क्षपाशयो दद्यादेव नप्रतिगृहोयात् ऊद्ध पञ्चभ्यो मासेभ्यः श्रावणकेनाग्नि मादध्यादाहिताग्निवृक्षमूलिको दद्याद् देवर्षिपितृमनुष्येभ्यः स गच्छेत् स्वर्गमानन्त्यम्” - इति। श्रावणकं तपस्वि-धर्म-प्रतिपादक वैरवानस-सूत्रम्। अकृष्टमूलमाहारत्वेन बुवन् ग्राम्यहार-परित्यागं सूचयति । अतएव मनुः, -
“सन्त्यज्य ग्राम्यमाहारं सर्वञ्चैव परिच्छदम् ।
पुत्रषु भार्या निक्षिप्य वनं गच्छेत् सहैव वा” - इति । गृहस्थस्य वनप्रवेशावसरमाह यमः, -
"द्वितीयमायुषो भागमुषित्वा तु गृहे द्विजः। तृतीयमायुषो भागं गृहमेधी वने वसेत् ॥ उत्पाद्य धर्मतः पुत्रानिष्टा यज्ञश्च शक्तितः।
दृष्टोऽपत्यस्य चापत्यं ब्राह्मणोऽरण्यमाविशेत्” - इति ॥ अत्र, ब्राह्मण-गृहणं त्रैवर्णिको लक्षणार्थ, 'उषित्वा तु गृहे द्विजः, - इत्युपक्रमानुसारात्। मनुरपि, -
"गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः । अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत्” - इति।
i मधिगच्छे, - इति मु० पुस्तके पाठः । श्रिावणमासेऽमि, - इति मु० पुस्तके पाठः।
For Private And Personal