________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५२४
पराशरमाधवः नैष्ठिकस्य पक्ष-कोटि निःक्षिप्तत्वादुपकृष्णकस्य प्रतिपत्तृत्वेनआश्रमित्वाभावात्। यदा, कम्मित्वेनाभिमतयो ब्रह्मचारि-वनस्थयो. रीडशो गतिः तदा, कैव कथा कृत्स्न-कर्म-त्यागिनो यतेः। तस्माद्, गार्हस्थ्यमेक एवाश्रमः, - इत्याचार्याणां पक्षः।
अत्रोच्यते। अस्ति हि चतुर्णा आश्रमाणां प्रत्यक्ष-श्रुतिविधानम्। तथाच, जावाला आमनन्ति । "ब्रह्मचर्य समाप्य गृही भवेत्, गृहाद्वनी भूत्वा प्रव्रजेत्” - इति । आचार्य्यास्तु, रागिणमभिप्रेत्य तस्योद्ध रेतःसु नैष्ठिक-वह्मचर्यादिषु विष्वाश्रमेष्वनधिकार मन्यमानाः, गाह्य स्थ्यमेव वर्णयामासुः। यत्तु कृतस्नेऽपि वेदे गृहस्थ-धर्मस्यैवाम्नानमित्युक्तम् । तदयुक्तम् । वानप्रस्थस्यापि सदारस्याग्निहोत्रादि-सम्भवात् । नैष्ठिक ब्रह्मचारि-धर्मस्तु छन्दोगै पठ्यते । “ब्रह्मचार्याचार्यकुल-वासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्” - इति। उपकुर्वाणक-धर्माः सर्वशाखासूपनयन-प्रकरणेषु प्रसिद्धाः। यति-धम्मरिचोपनिषद्भागे। अतो यावज्जीवादि-श्रुतेः कामि-विषयत्वेनाश्रमान्तराणि न तया प्रलपितुं शक्यन्ते। साधिताश्चोत्तरमीमांसायां चत्वार आश्रमाः । तस्मात् , क्रमप्राप्तो वानप्रस्थाश्रमः प्रस्तूयते। तत्र, याज्ञवल्क्यस्तं विधत्ते, -
“सुत-विन्यस्त पत्नीकस्तया वाऽनुगतो वनम् ।
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्” - इति । वानप्रस्थो वुभूषुः स्वस्य ब्रह्म वयं-नियमेन पत्न्या अनपयोगात्ता रक्षणीयत्वेन पुत्रेषु निःक्षिप्य वनं व्रजेत्। यदा साऽपि नियता सती पति-शुश्रूषां कामयते, तदा तया सह वनं ब्रजेत्। तस्मिन् पक्ष
। प्रतिषिद्वत्वेन, - इति स० सो० पुस्तकयो पाठः ।
For Private And Personal