________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
५२१
कूर्मपुराणेऽपि,-- ___ "छन्दांस्यूद्धमतोऽभ्यस्येतू शक्लपक्षेषु वै द्विजः।
वेदाङ्गानि पुराणानि कृष्णपक्षषु मानवः*" - इति ॥ यदि भावि-विघ्न भयात् सहसाऽध्येतव्यमिति बुद्धिः, तदा संवत्सरान्ते प्रागुपाकरणात्मृजेत। “यत् स्वाध्यायमधीतेऽब्दम् i" - इति श्रुतेः। उपाकरणोत्सर्जने प्रशंसांत कात्यायनः, -
"प्रत्यब्दं यदुपाकर्म सोत्सर्ग विधिवद् द्विजैः। क्रियते छन्दसां तेन पुनराप्यायनं भवेत्। अयातयामैश्छन्दोभिर्यत् कर्म क्रियते द्विजैः।
क्रौडमानैरपि सदा तत्तेषां सिद्धि-कारकम्” - इति । अन्येऽपि धर्माः कूर्मपुराणे दर्शिताः, -
"नाधाम्मिकैर्वृ ते ग्रामे न व्याधि वहुले भृशम् । न शूद्र-राज्ये निवसेन्न पाषण्डि-जनते। हिमवद्विन्ध्ययोर्मध्यं पूर्वपश्चिमयोः शुभम् । मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेत् द्विजः । कृष्णो वा यत्र चरति मृगो नित्य स्वभावतः । पुण्यश्च षिश्रुता नद्यस्तत्र वा निवसेद्विजः। परस्त्रियं न भाषेत नायाज्यं याजयेद्वधः । न देवायतनं गच्छत् कदाचिच्चाप्रदक्षिणम् । न वीजयेद्वा वस्त्रण समवायञ्च वर्जयेत्। नैकोध्वानं प्रपद्यत नाधाम्मिक-जनैः सह । न निन्द्य द्योगिनः सिद्धान् व्रतिनोवा यतोंस्तथा" - इति ।
* वैद्विजः, - इति मु० पुस्तके पाठः । i मधीयीत, - इति मु० पुस्तके पाठः ।
For Private And Personal