________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५२०
पराशरमाधवः पक्षद्वयोपन्यासो दर्शितः। उपाकरणस्य गृहस्थधर्मत्वाभ्युपगमे मनु-याज्ञवल्क्य-स्मृत्योहस्थ-धर्म-प्रकरण-पाठोऽप्यनुगृहीतो भवति। उपाकरणस्येतिकर्तव्यता कार्णाजिनिना दर्शिता, -
“उपाकर्मणि चोतसर्गे यथाकालं समेत्य च ।
ऋषोन् दर्भमयान् कृत्वा पूजयेत् तर्पयेत्तंतः", - इति । बौधायनोऽपि, -
“गौतमादीनृषीन सप्त कृत्वा दर्भमयान् पुनः । पूजवित्वा यथाशक्ति तर्प येद् वंशमुद्धरन्” - इति ।
अथोत्सर्जनम् ।
-
तत्र याज्ञवल्क्यः , -
“पौषमासस्य रोहिण्यामष्टकायामयापि वा। जलान्ते छन्दसां कुर्यादुत्सर्ग विधिवद्वहिः ॥" - इति।
मनुरपि, -
"पुष्ये तु चन्दसां कुर्याद्वहिरुत्सर्जनं द्विजः।
माघशुक्लस्य वा प्राप्ते पूर्वाह प्रथमेाहनि” – इति । यदा श्रावण्यामुपाकर्म, तदा पुष्यमासस्य शक्लप्रतिपदि पूर्वाह, यदि पौष्ठपद्यामुपाकर्म, तदा माघस्येति व्यवस्थितोऽयं विकल्पः । उत्सृष्टस्यापि पुनरध्ययनं प्रागुपाकरणात् काल-विशेषे विदधाति
मनुः,
"अतः परन्तु छन्दांसि शुक्लषु नियतः पठेत् । अङ्गानि च रहस्यञ्च* कृष्णपक्षेषु वै पठेत्” – इति ।
* वेदाङ्गानि रहस्यं च, - इति मु० पुस्तके पाठः।
For Private And Personal