________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पा
पराशरमाधवः यत्राद्धरात्रादर्वाकचेद्रग्रहः संक्रम एव वा।
नोपाकर्म तदा कुर्यात् श्रावण्यां श्रवर्णऽपि च ॥"- इति । कर्कटे मासे नोपाकर्म कर्त्तव्यं । तथा च स्नृत्यन्तरे, -
"वेदोपाकरणे प्राप्ते कुलोरे संस्थिते रवौ ।
उपाकर्म न कर्त्तव्यं कर्तव्य सिंह-संयुते ॥” - इति । तदेतद्देशान्तर विषयम्। तथा च स्मृत्यन्तरम्,
"नर्मदोत्तरभागे तु कर्तव्यं सिंह-संयुते।
कर्कटे संस्थिते भानावुपाकुर्यात् तु दक्षिणे* ॥” ननु उपाकरणं ब्रह्मचारि-धर्मः, “उपाकृत्याधीयोत” - इति तस्य ग्रहणाध्यायनाङ्गत्व-प्रतीतेः। ग्रहणाध्ययनञ्च ब्रह्मचारिण एव, “वेदमधीत्य स्नायात्” - इति स्नानात् प्राचीनत्वावगमात्। अतः, कथमिदं गृहस्थधर्मत्वेनोच्यते। नायं दोषः। गृहस्थस्यापि ग्रहणाध्ययनेऽधिकार-सम्भवात्। अतएव “अधीयीत" - इत्यनुः वृत्तौ ब्रह्मचारिकल्पेन, यथान्यायमितरे जायोपेता इयेके" - इति । ___अस्यार्थः। येन नियमविशेषेण युक्तो ब्रह्मचारी अधोते, तेनैव नियमेन समावृत्तोऽप्यधीयीत। समावृत्तादितरे ब्रह्मचारिणस्तु यथान्याय स्वविध्युक्त-प्रकारेणाधीयीरन्। तथा, जायोपेतो गृहस्थोऽपि ब्रह्मचारिवन्नियमोपेतोधीयोतेति। न च समावृत्त गृहस्थयोग्रहणाध्ययनाधिकारे “वेदमधीत्य स्नायात्” – इति विरुद्धय तैति शानीयम् । तस्य वचनत्य विद्यास्नातक-विषयत्वात्। अतएव,- “वेदं ब्रतानि वा पारं नीत्वा ह्य भयमेव वा” - इति ।
* वदेवत्, - इत्यादि दक्षिणे, - इत्यन्तं नास्ति मु० पुस्तो।
For Private And Personal