SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५१८ पराशरमाधवः अर्द्ध पञ्चमं येषां ते तथा सार्द्धान् चतुरी मासानित्यर्थः । यदा पुनः श्रावण्यां पौष्ठपद्यां वा शुक्रास्तमयादि - प्रतिवन्धः, तदानीमाषाढ्यां कर्त्तव्यम् । तदुक्तं कूर्मपुराणे, - “ श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः । आषाढ्यां पौष्ठपद्यां वा वेदोपाकरणं स्मृतम्” - Acharya Shri Kailashsagarsuri Gyanmandir इति । वौधायनोऽपि । “श्रावणपौर्णमास्यामाषाढ्यां वोपाकृत्य तैष्यां माध्या वोऽसृजेत्” इति । तेषु त्रिष्वपि मासेषु पूर्णिमा श्रवण-हस्ताः शाखा-भेदेन व्यवस्थिताः । तदाह गोभिलः, "पर्व्वण्योदय के कुर्युः श्रावण्यां तैतिरीयकाः । वह्न. चाः श्रवणे कुर्य्यग्रह- संक्रान्ति वर्जिते" - इति । - अत्र, औदयिके, - इति पर्व्वादिषु सर्व्वत्र संवद्धयते । पर्वणि औदयिकत्वे विशेषमाह सएव, " श्रावणी पौर्णमासी तु सङ्गवात्परतोयदि । तदा त्वौदयिको ग्राह्या नान्यथौदयिकी भवेत्” - इति । श्रवणस्य त्वौदयिकत्वमन्वय-व्यातिरेकाभ्यां व्यासेन दर्शितम्, " श्रवणेन तु यत्कर्म्म ह्य त्तराषाढ़-संयुते । संवत्सर - कृतोऽध्यायस्तत्क्षणादेव नश्यति । धनिष्ठा संयुते कुर्याच्छावणं कर्म्म यद्भवेत् । तत् कर्म्म सफलं ज्ञ ेयमुपाकरण- संज्ञितम्" इति । For Private And Personal - Cody श्रवणे यत् कर्म विहितं तदुत्तराषाढ़-संयुते न कुर्य्यात्, यदि कुर्य्यात् तदा नश्यतीति योजनीयम् । ग्रह-संक्रान्ति वज्जिते,इति यदुक्तं, तत्र विशेषमाह गार्ग्यः, - “अद्धरात्रादधस्ताच्चेत् संक्रान्तिर्ग्रहण ं तथा । उपाकर्म न कुर्वीत परतन्त्र दोषकृत् ॥ - -
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy