________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
५१० क्षत्तायोगवाः प्रतिलोमवर्णजाः। इत्थं द्वादश। तत्र मूर्द्धावसिक्तेनानुलोमेन क्षत्रिया-वैश्या-शूद्रासूत्पादितास्त्रयः, प्रातिलोन्मेन ब्राह्मण्यामेकः ; अम्बष्ठस्यानुलोम्मेन दौ, प्रातिलोम्येन द्वौः निषादस्यानुलोम्येनैकः प्रतिलोम्येन त्रयः; माहिष्यस्यानुलोम्येन द्वौ, प्रातिलौम्येन द्वौ , उग्रस्यानुलोम्येनैकः, प्रातिलोम्येन त्रय ; करणस्यानुलोम्येनैकः, प्रातिलोम्येन त्रयः, - इति पूर्वषट्कोत्पादिताश्चतुर्विशतिः। एवं सूतादीनां षणां वर्णानामेकैकस्य चतृसृषु वर्णेष्वेकैकः,-इति, तेऽपि चतुर्विंशतिः। एव मिलित्वा षष्टिः सम्पद्यते। तेभ्यः संख्याकेभ्यः उत्पादितैः अपत्यैराभासानां संख्याया आनन्त्यं भवति। समाप्ता प्रासङ्गिकी जाती-भेद-कथा। विवाहानन्तर-भाविनः प्राकृताः पञ्चमहायज्ञादयः सोमसंस्थाऽन्ताः संस्कारा आह्निक-वचने षट्कर्मवचने च निरूपिताः, - इति नात्र पुनरुच्यन्ते ।
अथावशिष्टाः गृहस्थधा निरुप्यन्ते । तत्रोपाकर्म-विधिमाह याज्ञवल्क्यः, -
“अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा। हस्तेनौषधिभावे वा पञ्चभ्यां श्रावणस्य तु" - इति ।
'अधोयन्ते' - इत्यध्याया वेदाः। तेषामुपाकर्म प्रारम्भः श्रावणमासस्य पौर्णमास्या, अन्यस्यां वा श्रवण-नक्षत्रयुक्तायां तिथौ, हस्त नक्षत्र-युक्तायां श्रावणमासस्य पञ्चभ्यां वा कर्त्तव्यः । यदा तु श्रावणमासे ओषधयो न प्रादुर्भवन्ति, तदा भाद्रपदे मासे प्रोक्त-तिथिषु कुर्यात्। तदाह वसिष्ठः। “अथातः स्वाध्यायोपाकर्म श्रावण्यां पौर्णमास्यां प्रौष्ठपद्यां वा” -- इति। मनुरपि, -
"श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयोत मासान् विप्रोऽर्द्ध पञ्चमान्” - इति ।
For Private And Personal