SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ५१५ व्यवस्थित-विकल्पः। कूटस्थयोर्दम्यत्योः समनन्तरकान्तरद्वयन्तर-जाति-योगे पण्चमादयोऽवगन्तव्याः, - इति। तथाच सति, शुद्रा-वैश्ययोर्वैश्याक्षत्रिययोश्च समनन्तरत्वात् पञ्चमे, शूद्रा-क्षत्रिययोः षष्ठे, जातिरुत्कृष्यते। क्वचिदुत्तम-जातेरप्यघमजाति-प्राप्तिर्भवति। तदाह सएव, - "व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम्” – इति। विप्रादीनांचतुर्णा वर्णानां मुख्यवृत्तितया विहिताति याजन - पालन-पशुपाल्य-द्विजशुश्रूषाऽऽदीनि यानि कर्माणि, तेषामापदि व्यत्यये विपर्यासे सति, यदि निबृत्तायामप्यापदि तामधम-बृत्तिं न परित्यजेत् ; तथा पुत्रपौत्रादयोऽपि तां न परित्यजेयुः, तदानीं पूर्ववत् पञ्चम-षष्ठ-सप्तमेषु युग्मेषु जातमपत्यं तद्वृत्त्युचितजाति-साम्यं प्रतिपद्यते, - इति। तद्यथा। ब्राह्मणः शूद्र-बृत्या जीवन यदि पुत्रमुत्पादयति, सोऽपि तथैव, - इत्येवं परम्परायां सप्तमादुत्पन्नस्य शूद्रत्वं भवति। एवं क्षत्रियः शूद्र-बृत्र्या जोक्न् षष्ठे युग्मे शुद्र' जनयति। वैश्वस्तु पञ्चमे युग्मे, - इति द्रष्टव्यम्। पूर्ववदित्यादेरयमर्थः। अधरोत्तरमिति भावप्रधानो निद्देशः। यथा वर्ण-साडयें प्रातिलोम्यमधम, आनुलोम्यमुत्तमं, तथा वृत्ति-सांकर्येऽपि। तद्यथा। क्षत्रियस्यापद्यपि याजनादिब्राह्मण-वृत्त्युपजीवनमधमम् । “न तु कदाचिज्ज्यायसीम्" - इति वसिष्टेन निषिद्धत्वात् । पाशुपाल्यादि-वैश्य-वृत्त्युपजीवनमुत्तमम् । “अजोवन्तः स्वधर्मेणानन्तरां पापीयसों वृत्तिमातिष्ठेरन्” - इति वसिष्ठेनापदि विधानादिति। पूर्ववच्चाधरोत्तरमित्यस्यापराव्यारव्या। त्रिविधोहि सङ्कुरः वर्ण-सहरः सङ्कीर्ण-सरो वर्णसहीण-सङ्करश्चेति। तद्यथा। उत्तमाधम-वर्णयोर्दाम्पत्यं वर्णः-सबरः। तज्जन्ययोमाहिष्य-करिण्योर्दाम्पत्य-संकीर्ण-सहरः। वर्ण-सोर्णयोर्दाम्पत्यं For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy