________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्य ,आ० का
।
पर शिरमाधवः।
पन-विंशति-तचेभ्योवहिनूतम्य कालत त्वस्याभावात् प्रधानमेव काल-शब्देन व्यवहियताम् । अतः प्रलय-कालावसाने परमेश्वरः सृष्टिं कामयते । तथाच, श्रुतयः,-"कामस्तदग्रे समवर्त्तताधि" "मेऽकामयत बहु स्यां प्रजायेय"-दूति, “तदैक्षत बहु स्यां प्रजायेय इति” “म ईतां चक्रे"-इत्यादि। ननु, कामानाम मनोवृत्ति-विशेषः, “कामः सङ्कल्पोविचिकित्मा-श्रद्धा-ऽश्रद्धा-धृतिरधृतिः श्री@ीरित्येतत् सब मनएव,' इति श्रुतेः। मनश्च भौतिकम् , "अन्नमयं हि साम्य ! मनः" इति श्रुतेः । तथा मति, भूतोत्पत्तेः पर्वमविद्यमाने मनमि कुतः कामः ? । उच्यते । न तावत् सर्गसमये चोद्यमिदमुदेति, तन्मनोभौतिकवाभावात् , नित्यायाः दैश्वरेछाया: मनोऽनपेक्षत्वाच्च । सिमृक्षात्वन्तु सर्गोपहितत्वाकारेण नित्येच्छायामप्युपपद्यते । औपनिषदे मते तु जीवेच्छायाः भौतिक-मनः कार्यात्वेऽपि, ईश्वरेच्छायाः माया-परिणाम-रूपत्वात् न मनोऽपेक्षाऽस्ति । अन्तरेणापि देहेन्द्रियाण्यशेष-व्यवहार-शकिरचिन्त्या परमेश्वरस्य अतिध्वगम्यते,
"न तस्य काय करणञ्च विद्यते न तत्-ममश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च" ॥ इति ।
• "तथा च"-इत्यारभ्य, "मनु"-इत्यन्नः पाठः स० सा• पुस्तकयो नास्ति ।
For Private And Personal