________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
या०,
का।
यावन्तं कालमभिव्यक्त-जगदाकारोपेतं ब्रह्म पूर्वमासीत् , तावन्त मेव कालमनभिव्यकदशायामवस्थाय(१) पश्चादभिव्यको प्रयतते । ननु, महाप्रलये, कालोवा तदियत्ता वा कथं घटते ? (२) । उच्यते। के प्रत्येतचोद्यम्?(१) न तावत् ब्रह्म-वादिनं प्रति, 'तन्मते वियदाद्यनन्तभेद-जगत्-प्रतीति * कल्पयन्यामायायाः कश्चिन्महाप्रलयः एतावत्काल-परिमितामीत्,-इत्येवं विध-प्रतीति-मात्र-कल्पने कोभारः ?(४) । (५)परमाणु-वादेऽप्यस्लेव नित्यः कालः । (६)प्रधान-वादे
__ * भेदभिन्नं जगत् प्रतीतं-इति स० सो पुस्तकयाः पाठः ।
(१) अनभिव्यक्तदशा महाप्रलवः।। (२) कालस्य क्रियारूपत्वात् महाप्रलये च क्रियाया असम्भवादिति भावः।
तदियत्तापि क्षणादिलक्षणा क्रियासाध्यैव । प्रश्नायं 'क्रियैव काल:'इति मतानसारेणेति धोध्यम् । क्रियातिरिक्तः पदार्थान्तरं कालः, - इति मतमाश्रित्य प्रथमं तावत्
वेदान्तमते परिहारमाह न तावदिति। (8) तथा च एतन्मते हरिप्रलयौ दावेव माया-कल्पिताविति भावः । (५) न्याय-वैशेषिकमते परिहारमाह परमाणवादे इति । एतन्मते प्रलय
कालस्येयत्ताव्यवहारोवंसेनोपयादनीयः,-इत्या करे व्यक्तम् । (६) सांख्यमते परिहारमाह प्रधानवादे इति । प्रधानं प्रकृतिः। पञ्च
विंशति तत्त्वानि तु प्रकृतिमहदहवारपञ्चतन्मात्र एकादशेन्त्रिय-पञ्च महाभूत-पुरुघरूपाणि सांख्ये प्रसिद्धानि । एतन्मते, प्रलयेऽपि प्रधानस्य सदृशपरिणामप्रवाहसत्त्वात् नानुपपत्तिस्तदियत्ताया इति ध्येयम् । इदमत्रावधेयम् । सांख्यीये सिद्दान्ते न कालोनाम पदार्थाऽम्ति, किन्तु येस्पाधिभिरेकस्य कालस्य भतभविष्यदादिव्यवहारभेदं वैशेषि कादयोमन्यन्ते, तरवोपाधयाभूतादिव्यवहारं प्रयोजयन्तीति कृतमत्र कालेन, इति सांख्यतत्त्वकौमुद्यामभिहितम् । एतच कालमाधवोयग्रन्थे ग्रन्थकताप्युरीकृतम्।
For Private And Personal