________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५१४
पराशरमाधवः तवृत्तयश्च पुराणसारे प्रपञ्चिताः। तेषु च जाति विशेषेषूत्तमाधम-भावं विविनक्ति देवलः, -
“तेषां सवर्णजाः श्रेष्ठास्तेभ्योऽन्वगनुलोमजाः ।
अन्तरालावहिर्वर्णाः पतिताः प्रतिलोमजाः" - इति । विजातोयान्मिथुनादुत्पन्ना अन्तरालाः। ते च द्विविधाः, अनु लोमजाः, प्रतिलोमजाश्च। तत्रानुलोमजाः सवर्णजेभ्यो हीना - अपि न वर्णवाह्याः, मातृसमानवर्णत्वात्। प्रतिलोमजास्तु वर्णवाह्मत्वात् पतिता अधमाः। याज्ञवल्क्योऽपि, -
"असत्सन्तस्तु विज्ञयाः प्रतिलोमानुलोमजा" - इति। क्वछिदधमजातेरय्युत्तमजाति-प्राप्तिर्भवति। तदाह स एव, -
“जात्युत्कर्षो युगे ज्ञयः सप्तमे पञ्चमेऽपिवा” – इति। कूटस्थ-स्त्रीपुंस-युगमारभ्य परिगणनायां पञ्चमे षष्ठे सप्तमे वाऽनुलोमेन युग्मे जातिस्त्कृष्यते। तद्यथा। पुमान् विप्रः, वधूः शूद्रा, तयोर्युग्मं कूटस्थ, तस्मादुत्पन्ना निषादी साऽपि विप्रेणोढ़ा तयोर्युग्मं द्वितीयं, एवं तदुत्पन्नायां वघ्वां विप्रेणोढ़ायां तृतीयादियुग्म-परम्परा भवति, तत्र सप्तमे युग्मे जातमपत्यं ब्राह्मण्योपेतं भवति। एवं वैश्या-विप्र-युगलं कूटस्थं युग्म, तस्मादुत्पन्नाऽम्वष्ठा, तस्याश्च विप्रस्य च युग्मं द्वितीयं, इवं तदुत्पन्नायां विप्रेणोढ़ायां षष्ठं यद् युग्मं, तस्मादुत्पन्नस्य व्राह्मण्यं भवति। तथा क्षत्रियाविप्रयोर्युग्मं कूटस्य, तदुत्पन्ना मूर्द्धावसिक्ता, तस्याश्च विप्रस्य च युग्मं द्वितीयं, तत्परम्मरायां पञ्चमाद्युग्मादुत्पन्नस्य ब्राह्मण्यं भवति । एतदुक्त भवति। पञ्चमे षष्ठे सप्तमे वेति
तिदुत्पन्नाश्थ, - इति स० पुस्तके पाठः ।
For Private And Personal