________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११३
पराशरमाधवः याज्ञवल्क्येरुदाहृतत्वात्। प्रतिलोमजास्तु मनुना दर्शिताः.
"क्षत्रियाद्विप्र-कन्यायां सूतो भवति जातितः। वैश्यान्मागधवैदेही राजविप्राङ्गना-सुतौ। शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् । वैश्य राजन्य-विप्रासु जायन्ते वर्णसङ्कराः ॥ आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् । प्रातिलोम्येन जायन्ते शूद्रादपशदास्त्रयः । वैश्यान्मागधवैदेही क्षत्रियात् सूत एव च । प्रतीपमेते जायन्ते परेऽप्यशदास्त्रयः” - इति ।*
देवलोऽपि, -
“शूद्रादायोगवः क्षत्ता चण्डालः प्रतिलोमजाः । वैश्यायां क्षत्रियाञ्च ब्राह्मण्याञ्च यथाक्रमम् ॥ . तथैव मागधो वैश्याज्जातो वैदेहकस्तथा। ब्राह्मण्यां क्षत्रियाज्जातः सूतो जात्या न कर्मणा” – इति ।
याज्ञवल्क्योऽपि, -
"ब्राह्मण्यां क्षत्रियात् सूतोवेश्याद् वेदेहकस्तथा। शूद्राजातस्तु चण्डालः सर्व-धर्म-वहिष्कृतः ॥ क्षत्रिया मागधं वैश्यात् शूद्रात् क्षतारमेवच ।
शूद्रादायोगवं वैश्या जनयामास वैसुतम्” - इति । वर्णानामनुलोमजानां प्रतिलोमजानाञ्च परस्पर-साइय्यैणोत्पन्नाः श्वपाकपुल्कस। कुक्कुटादयो जातिविशेषास्त्वनेकविधाः ते च
* श्लोकोऽयं मुद्रित पुस्तके नास्ति । i पुक्कश इत्वन्यन्त्र पाठः।
For Private And Personal