________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५१२
पराभरमाधवः तत्र ब्राह्मणाज्जातास्त्रयः क्षस्त्रिातद्वौ, वैश्यादेकः। तदुक्त मनुना,
“विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः। वैश्यस्य वर्णएकस्मिन् षड़ेतेऽपशदाःस्मृताः' - इति ।
मुख्य-पितृ-जात्यभावात् अपशदाः। ननु, मूविसक्तत्वादीनि न जात्यन्तराणि, अनुलोमजानां मातृजातीयत्वात् । तदाह विष्णुः,– “समान वर्णासुपुत्राः समान-वर्णाभवन्ति, अनुलोमजास्त मातृसवर्णाः* प्रतिलोमजास्त्वार्य-विगहिताः" - इति । शङ्खोऽपि, -
"क्षत्रियायां ब्राह्मणेनोत्पन्नः क्षत्रिय एव भवति, क्षत्रिया
द्वैश्यायां वैश्यएव भवति, वैश्येन शूद्रयां शूद्रएव भवति” । नैषदोषः । अनयोर्वचनयोर्मातृजात्युदित धर्म प्राप्त्यर्थत्वात । अन्यथा, वीजोत्कर्षवेयर्थ्यांपत्तेः। यथा क्षेत्रापकर्ष उत्कृष्ट-जातिनिवारकः एवं वीजोत्कर्षो पनिकृष्ट-जाति कुतो न निवारयेत् । तस्मात् , जात्यन्तराण्येव मूर्द्धावसिक्तत्वादीनि । ननु, देवलेनानु. लोम-जातयोऽन्यथा वर्णिताः।
"ब्राह्मणात् क्षत्रियायान्तु सवर्णोनाम जायते। क्षत्रियाच्चैव वैश्यायां जातऽम्वष्ठ इति स्मृतः"- इति ।
नायं दो । एकस्यामेव जतौ मूर्द्धावसिक्त-सवर्ण-संज्ञयोविकल्पेन प्रवृत्तत्वात्। एवमम्बष्ठादिष्वपि । न चेकत्र संज्ञाविकल्प दृष्टान्ताभावः शङनोयः, एकत्र निषाद-पारशव सज्ञा-विकल्पस्य मनु-देवल
* व्यनुलोमास मातृषु मातृर्णाः, - इति स० पुस्तके पाठः ।
For Private And Personal