________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५१०
पराशरमाधवः विष्णुवचनम् .
“अग्निहोत्रादि-यज्ञषु न द्वितीया सहाचरेत् ।
अन्यथा निष्फलं तस्य खिष्टः क्रतुशतैरपि' - इति । एतद्वचारव्यानं वौधयन-कात्यायन-वचन-विरोधान्नादरणीयम् । विष्णुवचनन्त्वसवर्ण-द्वितीया-विगयम् , सत्स्वग्निषु या परिणीता तद्विषयं वा। नष्टेष्वग्निषु पुनराधाने तस्या अपि कत्त त्वादग्निहात्रादिषु सहाधिकारः । तत्रैव विशेषमाह कात्यायनः, -
“अग्निहोत्रादिशुश्रूषां वहुभार्यः सवर्णया । कारयेत्तद्वहुत्वे च ज्येष्ठया गाहिता न चेत् । तथावीर-सुवामासामाज्ञासम्पादिनी च या। दक्षा प्रियम्वदा शुद्रा तामत्र विनियोजयेत् ॥ दिन क्रमेण वा कर्म यथा ज्येष्ठमशक्तितः।
विभज्य सह वा कुर्याद् यथाज्ञानमशक्तितः" - इति। यदि ज्येष्ठा न गर्हिता, तदा तया कारयेत् । गहिता चेत्, कनिष्उया वोरसुवा कारयेत्। वीरसुवोपिवयचेत्, तासामपि मध्ये आज्ञा. सम्पादनादि-गुण युक्तां विनियोजयेत् । प्रतिदिनमेका कतमशक्ता चेत्, तदादिन-क्रमेण यथाज्येष्ठ कारयेत्। एकस्मिन्नपि दिने यद्य का कृत्स्नं कर्तुमशक्ता, तदा सर्वास्तत् कर्म यथाज्ञानं विभज्य कुर्युः। यत्त, कात्यायनेनैवोक्तम् , -
“प्रथमा धर्मपत्नी स्याद् द्वितीया रतिवद्धिनी।
दृष्टमेव फलं तत्र नादृष्टमुपपद्यते" - इति । तद्विष्णु-वचनेन समानार्थम् ।
इत्थं सविशेषो विवाहोनिरूपितः। .
For Private And Personal