________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५०९
पराशरमाधवः त्यागोनाम तदीय-जनक-कुल-प्रेषणम्। “पूज्या भूषयितव्याश्च”इति यदुक्तं, तत्र बहुपत्नीकस्य पूजाक्रममाह मनुः, --
“यदि स्वाश्चावराश्चैव विन्देरन् योषितो द्विजाः । तासां वर्ण क्रमेण स्याज्जैष्ठ्यपूजा च वेश्मनि ॥ भत्तः शरीर-शुश्रूषां धर्मकार्यञ्च नैत्यकम् । स्वा स्वव कुर्यात् शर्वेषां नान्यजातिः कथञ्चन”– इति ।
बरोष पत्नीषु सहधर्मचारिणी निर्धारयति याज्ञवल्क्यः, -
“सत्यामन्यां सवर्णायां धर्मकायं न कारयेत् । सवर्णासु बिधौ धम्म ज्येष्ठया न विनेतरा” -- इति ।
सवर्णयैव सह धर्माचरेत् नासवर्णया। अलाभे तु सवर्णाया इतरयाऽपि सह धर्मचरेदित्यल्लभ्यते। न चैव सति, शूद्रयाऽपि सह धर्माचरणं प्रसज्येतेति वाच्यं, वसिष्ठ वचनेन तन्निषेधात् ; “कृष्णवणां या रमणायैव सा न धम्माय” - इति। सवर्णाऽनेकत्वे तु धर्मानुष्ठाने ज्येष्ठया विना मध्यमा कनिष्ठा च न योक्तव्ये, किन्तु ज्येष्ठया कनीयस्यो विनियोक्तव्याः। तथाच बौधायनः,“एकैकामेव सन्नाा देकैकां गार्हपत्यमीक्षयेत् एकेकामाज्यमवेक्षयेत्” - इत्यादि। कात्यायनः, -
"नैकयाऽपि विना कार्यमाधानं भार्यया द्विजैः। अकृतं तद्विजानीयात् सर्वानान्वारभन्ति यत्" - इति ।
यद्यस्मात् सर्वानारमन्ते तस्मादेकया कृतमप्यकृतमेव । केचिदत्र 'ज्येष्ठया न विनेतरराः' - इति वचनमन्यथा व्याचक्षते ; ज्येष्ठेव सहधर्मचारिणो नेतराः, - इति। उदाहरन्ति च तत्र
For Private And Personal