________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५०८
पराशरमाधवः अधिवेदन काल विशेषो मनुना दर्शितः, -
"वन्ध्याऽष्टमेऽधिवेद्याऽब्दे दशमे तु मृतरजा। एकादशे स्त्री-जननी सद्यस्त्वप्रियवादिनी” - इति ।
हितायां विशेषमाह सएव, -
"या रोगिणी स्यात्त हिता सम्पन्ना चैव शीलतः । साऽनुज्ञाप्याधिवेत्तव्या नावमान्या तु कहिचित्" - इति ।
अधिवेदन द्विविधं, धर्मार्थ कामार्थच। तत्र, पुत्रोत्पत्त्यादिधर्मार्थे पूर्वोक्तानि मद्यपत्यादीनि निमित्तानि ; कामार्थे तु न ताभ्यवेक्षणीयानि, किन्तु पूर्वोढ़ा तोषणीया। तथाच स्मृत्यन्तरे, -
“एकामुत्क्रम्य कामार्थमन्यां लब्धं य इच्छति।
समर्थस्तोषयित्वाऽर्थे: पूर्वोदामपरां वहेत्” - इति । यद्यसौ स्वयं न तोषयेत् , तदा तत्तोषगाय राजा द्रव्यं दापयेत् । तदाह याज्ञवल्क्यः , -
"आज्ञा-सम्पादिनों दक्षां वीरसं प्रियवादिनीम् । त्यजन् दाप्यस्तृतीयांशमद्रव्योभरणं स्त्रियाः” - इति ।
सधनस्य तृतीयांश-दानं निर्धनस्याशनाच्छादनादिना पोषणमिति । या तूक्त-द्रव्यापरितोषणात् प्रकारान्तरेण वा निर्गच्छेत् तां प्रत्याह मनुः, -
“अधिविन्ना तु या नारी निर्गच्छेद् द्वेषिता गृहात् । सा सद्यः सन्निरोद्धव्या त्याज्या वा कुल-सन्निधी”- इति ।
For Private And Personal