________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५०४
पराशरमाधवः
अग्रतो गच्छेत्। ऋतावपि जातिभेदेनोपगमन काल-सोचमाह
देवलः, -
"ब्राह्मण्यां ददशाहं स्याद दोक्तमृतुधारणम् । दशाष्टौ षट् च शेषाणां विधीयन्तेनुपूर्वशः” - इति ।
पञ्चम-दिवसमारभ्य द्वारशाहादिसंख्याऽवगन्तव्या । चतुर्थे तु दिवसे गमनं वैकल्पिकं, विहित प्रतिषिद्धत्वात्। तथाच हारीतोविदधाति, – “चतुर्थेऽहनि स्नातायां युग्मासु वा गर्भाधानम्” - इति। व्यासो निषेधति, -
“चतुर्थे सा न गम्याऽह्नि गताल्पायुः प्रसूयते" - इति । व्यवस्थित विकल्पश्चायमुदितानुदितहोमवत् । रजसो निबृतौ चतुर्या विधिः. तदनुवृत्तौ प्रतिषेधः । तथा च मनुः, -
"रजस्युपरते साध्वी स्नानेन स्त्री रजखला" - इति।
साध्वो गर्भाधानादि-विहित कर्मयोग्येत्यर्थः । दिन-विशेषेणोपगमने फल-विशेषोऽभिहितो लिङ्गपुराणे, -
"चतुर्थे सा न गम्याऽह्रि गताल्पायुः प्रसूयते। विद्या हीन व्रतभ्रष्टं पतितं पारदारिकम् ॥ दारिद्रयाणव-भग्नञ्च तनयं सा प्रसूयते। कन्यार्थिनैव गन्तव्या पञ्चभ्यां विधिवत् पुनः ॥ षष्ठयां गम्या महाभाग, सत्पुत्र*-जननी भवेत् । सप्तभ्यां चैव कन्या/ गच्छत् सैव प्रसूयते।
* सुपुत्र, - इति मु० पुस्तके पाठः |
For Private And Personal