SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ५०३ अस्यायमः। अस्ति किञ्चित् संप्रतिपत्तिनामकं कर्म । यदा पितुर्मरणावसरो भवति, तदा पुत्रमाहूय वेदाध्ययने यज्ञ लौकिकव्यापारे च यद्यत्कर्तव्यजातं तस्य सर्वस्य पुत्र सम्प्रदान कर्तव्यम्। सेयं सम्प्रतिपत्तिः। तस्यां च सम्प्रतिपत्तौ यस्मादनुशिष्ट एव पुत्रोऽधिकारी, तस्मादनुशिष्ट पुत्र परलोकहितमाहुः शास्त्रज्ञाः । अतएव पुत्रानुशासनं कुर्युः पितरः। स चानुशिष्टः पुत्रो यत्किञ्चित् सपित्रा शास्त्रीय कर्म अक्ष्ण्या वक्रत्वेन शास्त्र वैपरीत्येन कृतं भवति, तस्मात् सर्वस्मात् पापादेनं स्वपितरं स्वयं शास्त्रीयं कर्म सम्यगनुतिष्ठन्मोच यति। तस्मात् पुन्नाम्नो नरकात् त्रायते, -इति व्युत्पत्या पुत्रो नाम । स च पिता स्वयं मृतः पुत्रशरीरेणैवास्मिन् लोके यथाशास्त्र कर्म कुर्वन्ननुतिष्ठति, - इति । एवं सति बद्धनां मध्ये यथावदनुशासनं प्रज्ञा-मांद्यादि-प्रतिबन्धवाहुल्यत् कस्यचिदेव सम्पद्यते । अनुशिष्टष्वपि वहषु यथावदनुष्ठानं कस्यचिदेव । अतो ज्येष्ठः कनिष्ठो वा यस्तदशः, स एवानृण्यहेतुः। अतएव पुराणेऽभिहितम् , - “एष्टव्या वहवः पुत्राः यद्य केऽपि गयां व्रजेत् -- इति । "दशास्यां पुत्रानाधेहि” – इत्यादिमन्त्राश्चैवं सति वहुपुत्रत्त्वविधिमुपोद्वलयन्ति। यत्तु, कामजानितरानित्युदाहृतं, तदननुशिष्टविषयम् । तस्मात्. जात-पुत्रोऽप्यतावुपेयादेव। बहूनां पत्नीनामृतु-योगपद्ये क्रममाह देवलः, - "योगपद्य तु तीर्थानां विप्रादिक्रमशाव्रजेत्। रक्षणार्थमपुत्रां वा ग्रहणक्रमशोऽपि वा” – इति। तीर्थमृतुः। तद्योगपद्ये सत्यस्वर्णासु वर्णक्रमेण, सवर्णासु विवाह क्रमेण गच्छेत्। यदा तु काचिदपुत्रा, पुत्रवत्य इतराः, तदा अपुत्रां For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy