________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशर माधवः
अष्टभ्यां सर्व-सम्पन्नं तनयं सम्प्रसूयते ।
नवभ्यां दारिकार्थं स्याद्वदशम्यां पण्डितं तथा । एकादश्य तथा नारीं जनयत्येव पूर्ववत् ॥ द्वादश्यां धर्मतत्त्वज्ञ श्रौतस्मार्त्त - प्रवत्त कम् । त्रयोदश्यां तथा नारों वर्ण- सङ्कर- कारिणीम् । जनयत्यङ्गना, तस्मान्न गच्छत् सर्वयत्नतः ॥ चतुर्दश्यां यदा गच्छेत् सुपुत्र - जननी भवेत् । पञ्चदश्याञ्च धर्मज्ञां षोड़श्यां ज्ञानपारगम् ॥”
"पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा । पूज्याः भूषयितव्याश्च बहुकल्याणमोप्सुभिः ॥ यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । यतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥
धर्मज्ञ - इषि मु० पुस्तके पाठः ।
For Private And Personal
ऋतु कालानभिगमने यो दोषोऽभिहितः, तस्यापवादमाह व्यासः, "व्याधितो बन्धनस्थो वा प्रवासेष्वथ पर्वसु । ऋतुकालेऽपि नारीणां भ्रूणहत्या प्रमुध्यते ॥ वृद्धां वन्ध्यामवृत्तञ्च मृतापत्यामपुष्पिताम् । कन्याञ्च बहुपुत्रञ्च वर्जयन्मुच्यते भयात् ॥”
इति ।
भ्रूण हत्या भ्रण हननम् । उक्तरीत्या यस्यां बृद्धत्वादि-दोष रहितायामृतु कालोपगमनमवश्यंभावि यस्याञ्च वृद्धादौ नावश्यंभावि, सा सर्वापि सम्यक् पालनीया । तथा च मनुः,
५०५
इति ।
OR