________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५००
पराशरमाधवः अन्यदपि वज्ज्यं तत्रैव दर्शितम्, -
“न स्नातां तु स्त्रियं गच्छन्नातुरां न रजखलाम् । नानिष्टां न प्रकुपितां नाप्रशस्तां न रोगिणीम् ॥ नादक्षिणां नान्यकामां नाकामं नान्ययोषितम् । क्षुत्क्षामां नातिमुक्तां वा स्वयं चैतैर्गुणैर्युतः ॥
स्नातः स्रग्गन्धधृक् प्रीतो व्यावायं पुरुषो ब्रजेत्” – इति । तदव्रतः, - इत्यनेन श्रौतं वरं स्मारयति। तथा च श्रुतिः । “स स्त्रीषंसादमुपासोददस्य ब्रह्महत्यायै तृतीयं प्रतिगृहीतेति, ताअबुवन् वरं वृणावहा* ऋत्वियात् प्रजां विन्दामहै काममाविजनितेः सम्भवामह तस्मादृत्वियाः स्त्रियः प्रजां विन्दन्ते काममाविजनितेः सम्भवन्ति वरे । वृतं ह्यासां तृतीयं ब्रह्महत्यायै प्रत्यगृहृत् सा मलवद्ग वासाभवत्" - इति। अयमर्थः। इन्द्रः किल विश्वरूपनाम्नः पुरोहितस्य वधात् वह्माहत्यामुपागतामञ्जलिना स्वीकृत्य संवत्सरं धृत्वा लोकापवादागोतस्तां त्रधा विमज्य प्रथमभागं पृथिव्यै द्वितीयमागं वनष्पतिभ्यो वरपूर्वकं दत्वा तृतीयभागमादाय स्त्रोसमूहमुपागमत् ताश्च वरमयाचन्त, ऋतुकाल. रामनात् प्रजां लभेमहि आप्रसवमनृतावपि यथेच्छ सम्भवामेति वर लब्ध्वा तृतीयमागं प्रत्यगृह्णन् । स च भागो रजोरूपेण परिणतः, ततः प्रभृति मासि मासि योषिन्मलवद्वासा सम्पन्नेति । याज्ञवल्क्योऽपि, -
यथाकामो भवेद्वाऽपि स्त्रीणां वरमनुस्मरन् । स्वद्वार निरतश्चैव स्त्रियो रक्ष्यायतः स्मृतः" - इति ।
* वृणीमहा, - इति मु० पुस्तके पाठः । पाचे, - इति मु, पुस्तके पाठः ।
For Private And Personal