________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
४९८ बौधायनोऽपि, -
"त्रीणि वर्षाण्यतुमती यो भाया नोपगच्छति । स तुल्यं भ्र णहत्याया दोषमृच्छत्यसंशयम् । ऋतौ नोपैति यो भा-मनृतौ यश्च गच्छति ।
तुल्यमाहुस्तयोः पापमयोनौ यश्च सिञ्चति” - इति । पर्ववर्जमित्यनेन निषिद्ध-तिथि-नक्षत्रान्युपलक्ष्यन्ते। निषिद्धपर्व त्वमावास्या पौर्णमासी च तत्र स्त्रीगमनं श्रुत्या निषिद्धम् । -नामावास्यायाञ्च पौर्नमास्याच स्त्रियमुपेयाद् यद्य पेयानिरिन्द्रियः स्यात्” - इति। अन्याश्च निषिद्ध-तिथयोऽष्टम्यादयः । तत्र मनुः, -
अमावास्याऽष्टमी चैव पौर्णमासी चतुर्दशी।
ब्रह्मचारी भवेन्नित्यमप्यतौ स्नातको द्विजः" - इति । अमावास्यादयो यास्तिथयः, तासु स्त्रीसङ्गत्यागेनेत्यध्याहत्य योजनीयम् । ऋतुकालेऽपि दिनषट्कं वय॑मिति स एवाह, -
तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या।
त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः' - इति । निषिद्धनक्षत्र याज्ञवल्क्यो दर्शयति, -
एवं गच्छस्त्रियं क्षामा मघां मूलञ्च वर्जयेत्” – इति। क्षामा लघ्वाहारादिना कृशामित्यर्थः। अतएव वृहस्यतिरपि स्त्रीपुंसोराहार-विशेषं सनिमित्तमाह, -
"स्त्रियाः शुक्रऽधिक स्त्री स्यात् पुमान् पुंसोऽधिके भवेत् । तस्मात् शुक्रविवृद्धयर्थ स्निग्धं हृद्यञ्च भक्षयेत् । लघ्वाहारा स्त्रियं कुर्य्यादेवं सञ्जनयेत् सुतम्” – इति ।
स्निग्धमन्नञ्च भक्षयेत् , - इति मु० पुस्तके पाठः ।
For Private And Personal