________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पराशरमाधवः
४९७
परिक्रमो ब्राह्मणस्योक्तोराजन्यवैश्ययोराचार्य्यपरिक्रमः - इति ।
कृती द्वाहस्योपगम-नियममाह मनुः, -
“ऋतुकालाभिगामी स्यात् स्व- दारनिरतः सदा ।
पर्व्ववजं ब्रजेच्चैनां तद्वतोरतिकाम्यया ”
-
इति ।
――
Acharya Shri Kailashsagarsuri Gyanmandir
रजोदर्शन प्रभृति षोड़शाहोरात्रात्मकः कालो गर्भग्रहण समर्थऋतुः । तस्मिन्नृतावपत्यार्थी सदा स्त्रियमुपगच्छेत् । तच्चाभिगमनं स्वदा रेष्वेव । ऋतावपि पर्वतिथिं वर्जयेत् । अनृतावपि तथास्त्रिया प्राथितो विनाऽप्यपत्योद्दं शन्तामभिगच्छेत् ।
।
यथानिद्दिष्टमृतुं याज्ञ
वल्कयो दर्शयति,
“षोड़शत्तनिशाः स्त्रीणां तस्मिन् युग्भासु संविशेत् । ब्रह्मचाय्यैव पर्वाण्याद्याश्चतस्रश्च वर्जयेत्”
इति ।
―
तस्मिन्नृतौ पर्वाण्याद्याश्चतस्रो रात्रीर्वर्जयित्वा युग्मासु समासु षष्ठी प्रभृतिषु गच्छेत् पुत्रार्थम् । अयुग्मासु स्त्री- जन्म - भयादगमनं, न तु प्रतिषेधात् । युग्मास्वपि रात्रिष्वेवोपगमनं, नाहनि, दिवा कामस्य निषिद्धत्वात् । तथाचाथर्वणी श्रुतिः । प्राणंवा एते प्रस्कन्दयन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्य्यमेव तद यद्रात्रौ रत्या संयुज्यन्ते”इति शङ्खलिखितावपि, "नात्त वे दिवा मैथुनं ब्रजेत्" - इति । “ऋतुकालाभिगामी स्यात्” - इत्यत्र नियम-द्वयं वेदितव्यम् ऋतौ गच्छेदेव न तु वर्जयेत् — इत्येको नियमः, ऋतावेव गच्छेन्नानृतौइत्यपरः । अतएव देवलः,
;
“स्वयं दारानृतुस्नातान् स्वस्थश्चेन्नोपगच्छति । भ्रूणहत्यामवाप्नोति गर्भं प्राप्तं विनाशयेत्” - इति ।
f अयमय्यंज्ञः पैठिनसिवचनस्यैवाच इत्यनुमीयते ।
For Private And Personal