________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४९६
पराशरमाधवः
स्पष्टीकृतः,
“यदुच्यते द्विजातीनां शूद्राद दारोपसंग्रहः । न तन्मम मतं यस्मात् तत्रायं जायते स्वयम् ॥”- इति ।
आनुशासनिकेपि,
“अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः । रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः" - इति ।
युगभेदेन व्यबस्था च स्मृत्यन्तरे स्पष्टीकृता, - “असवर्णासु कन्यासु विवाहश्च द्विजातिभि:-- इत्यादिम नुक्रम्य -
“कलौ युगेत्विमान् धर्मान् वज्यानाहर्मनीषिणः” -- इत्युपसंहारातू* | विवाह-विधिस्तु मनुनामि हितः,
"पाणिग्रहण-संस्कारः सवर्णासूपदिश्यते। असवर्णास्वयं ज्ञयो विधिरुद्वाहकर्मणि । शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया।
वासोदशा शूद्रया तु वर्गोत्कृष्टस्य वेदने”- इति । शङ्खलिखितावपि,– “इषु गृह्णाति राजन्या प्रतोदं वैश्या दशान्तरं शूद्रा, ब्राह्यणस्तु सवर्णायाः पाणिं गृह्णीयात्। पैठोनसिः,
“साङ्ग ष्ठं व्राह्यगः पाणिं गृह्णीयात् क्षत्रियः शरम् । वैश्यानाश्च प्रतोदन्तु शूद्रावस्त्रदशामिति ***-- इति ।
* सा च व्यवस्था दृष्टोपपत्तिमलिका असवर्णाशौचविधानात,
इत्याधिकः पाठः मु० पुस्तके। ** साङ्गष्ट ब्राह्मण्याः पाणिं गृह्णीयात् क्षत्रियायाः शरं प्रोतदं वैश्यायाः
शूदायाव स्वदशमिति, इति मु० पुस्तके पाठः ।
For Private And Personal