SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४९४ पराशरमाधवः अग्रे स्नातकस्य प्रथमविवाहे. दारकर्माणि आग्नदोत्रादौ धर्मे:* सवर्णा, बरेण समानो वर्णोब्राह्मणादिर्यस्याः, सा; यथा ब्राह्मणस्य ब्राह्मणी क्षत्रियस्य क्षत्रिया वैश्यस्य वैश्या, प्रशस्ता। धर्मार्थमादौ सवर्णामूढा पश्चादिरंसवश्चेत्तदा तेषामवराः हीनवर्णाः इमाः क्षत्रियाद्याः क्रमेण भार्याः स्मृताः। तथा च याज्ञवल्क्यः, “तिस्रो वर्णानुपूर्वेण द्वे तथैका यथाक्रमम् । ब्राह्मण-क्षत्रिय-विशां भार्या स्वा शूद्रजन्मन"-इति। मनुरपि, “शूद्भव भार्या शूद्रस्य सा च स्वा च विशस्मृते। ते च स्वा चैव राज्ञः स्युस्ताश्च स्वा चाग्रजन्मनः" - इति । नारोदोऽपि, "ब्राह्मणस्यानुलोम्येन स्त्रियोऽन्यास्तिस्र एव तु । शूद्रायाः प्रातिलोम्येन तथान्ये पतयस्त्रयः । द भार्ये क्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता। वैश्याया द्वौ पती ज्ञयावेकोऽन्यः क्षत्रिया-पतिः”- इति । वसिष्ठ-पारस्करावपि,-तिस्रो ब्राह्मणस्य वर्णानुपूर्येण द्वे राजन्यस्यैका बैश्यस्य सर्वेषां वाशूद्राण मेके मन्त्रवर्जम्” – इति। पैठीनसिः,- “अलाभे कन्यायाः स्नातकवत्र चरेदपि वा क्षत्रियायां पुत्रमुत्पादयीत शूद्रायां वैत्येके"-इति । विष्णुरपि, "द्विजस्य भार्या शूद्रा तु धर्मार्थं न भवेत् कचित्। रत्यर्थमेव सा तस्य रागान्धस्य प्रकीर्तिता" - इति । * धर्म,- इति नास्ति मु० पुस्तके । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy