________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः
४९३
वरणानन्तरं देशन्तरगमने विशेषमाह कात्यायनः,
“वरयित्वा तु यः कश्चित् प्रणश्येत् पुरुषो यदा।
तदा समांस्त्रीनतीत्य कन्यान्यं वरयेद्वरम्”- इति । नारदोऽपि,
"प्रतिगृह्य तु यः कन्यां वरोदेशान्तरं व्रजेत्।
संवत्सरमतिक्रम्य कन्यान्यं वरयेदरम्”- इति । शुल्कं दत्वा यदि वरो म्रियते, तदा किंकर्तव्यमित्यत आह नारदः,
"कन्यायां दत्तशुल्कायां म्रियते यदि शुल्कदः ।
देवराय प्रदातव्या यदि कन्यानुमन्यते”- इति । देशान्तरगमने तु विशेषः कात्यायनेनोक्तः,
“प्रदाय शुल्कं गच्छेद् यः कन्यायाः स्त्रीधन तथा ।
धार्या सा वर्षमेकन्तु देयान्यस्मै विधानतः" - इति । एवञ्च वाग्दानादारभ्य सप्तमपद्यभिक्रमणात् प्राग्दोष द्र्शने भरणादौ वा कन्यामन्यस्मै दद्यादित्युक्तं भवति। अतएव कात्यायनः,
"अनेकेभ्यो हि दचायामनूढ़ायान्तु तत्र वै । परागमश्च सर्वेषां लभेत तदिमान्तु ताम् ।
अथागच्छेत वोढ़ायां दत्तं पूर्ववरो हरेत्”- इति । अनूढ़ायां यस्मै पूर्व प्रतिश्रुता स एव कन्यां लभते। अन्येनोढ़ा यान्तु स्वदत्त शुल्कमात्र हरेत् , न कन्यामित्यर्थः। 'लक्षण्यां स्त्रियमुद्हेत्' - इति यदुक्तं, तत्रोद्वहनीया कन्या द्विविधा , सवर्णा चासवर्णा च, तयोराद्या प्रशस्ता। तदाह मनुः,
“सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः” इति ।
For Private And Personal