________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४९२
पराशरमाधवः कन्यादोषास्तु नारदेन दर्शिताः,
“दीर्घ-कुत्सित-रोगात व्यङ्गा संस्पृष्ट मैथुना।
दृष्टान्यगताभावा च कन्या दोषाः प्रकीर्तिताः"- इति । न केवलं दोषमनारन्याय ददतो दण्डः, अपि तु सापि परित्याज्येत्याह मनुः,
“विधिवत् परिगृह्यापि त्यजेत् कन्यां विहिताम् । व्याधितां विप्रदुष्टां वा छाना चोपपादिताम्"- इति ।
नारदोऽपि,
"नादुष्टां दूंषयेत् कन्यां नादुष्टं दूषयेद्वरम् ।
दोषे सति न दोषः स्यादन्योन्यं त्यजतोद्धयोः"- इति । एतत् सतपद्यमिक्रमणादग्वेिदितव्यम्। तत्रैव भार्यात्वस्योत्पत्त।
अतएव मनुः,
"पाणिग्रहण मन्त्रैस्तु नियतं दार लक्षणम् । तेषां निष्ठा तु विक्षेया विद्वद्भिः सप्तमे पदे" - इति ।
यमोऽपि,
"नोदकेन न वा वाचा कन्यायाः पतिरिष्यते।
पाणिग्रहण-संस्कारात् पतित्वं सप्तमे पदे"- इति । पाणिग्रहण-संस्कारात् पूर्वं परिणेतुर्मरणेऽपि न कन्यात्व होयते। तथा च वशिष्ठः,
"अद्भभिर्वाचा च दत्तायां म्रियते वा वरो यदि । न च मन्त्रोपनीता स्यात् कुमारी पितुरेव सा” - इति ।
* अयचोद्धाहोयुगान्तरविषयः,- इत्यधिकः पाठ ... पुस्तके दृश्यते।
For Private And Personal