________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४८८
पराशरमाधवः व्राह्मादिषु विवाहेषुचतुर्वेवानुपूर्वशः। वह्मवर्चखिनः पुत्रा जायन्ते शिष्ट-संमताः॥ रूप सत्व-गुणोपेता धनवन्तो यशखिनः । पर्याप्त मोगा धर्मिष्ठाजीवन्ति च शतं समाः इतरेषु च शिष्टेषु नृशंसानृतवादिनः । जायन्ते दुर्विवाहे तु ब्रह्म-धर्म-द्विषः सुताः"- इति ।
प्रशस्तेष्वपि चतुर्पु विवाहेषु पूर्वः पूर्वः प्रशस्ततरः। तत्र बौधायनः,“तेषाञचत्वारः पूर्वे ब्राह्मणस्य, तेष्वपि पूर्वः पूर्वः श्रेयान् , इतरेषामुत्तरोत्तरः पापीयान्" - इति। नन्वासुरवदार्षोऽपि पापीयान् , क्रयप्राप्तत्वाविशेषात्। अतएव काश्यपः,___"क्रयक्रोता तु या नारी न सा पत्न्यभिधीयते। न स देवेन सापिण्ड्य दासी तां काथ्यपोऽब्रवीत्" - इति
मनुरपि आर्षस्य क्रयक्रोतत्वादधर्मत्वमभिप्रेत्याह, -
"पञ्चानान्तु वयोधाः द्वावधयौँ स्मृताविह । पैशाचश्चासुरश्चैव न कर्त्तव्यौ कथञ्चन?"- इति ।
ब्राह्मादीनामासुरान्तानां मध्ये व्रह्म-दैव-प्रजापत्याः त्रयोधाः क्रयाभावात्। आर्षासुरौ द्वावधम्यौ, क्रय-क्रीतत्वात्। तयोरप्यासुरः पैशाचवदापद्यपि न कर्त्तव्यः । तन्न। पञ्चाना मिति वचनस्य
* इतरे ष्ववशिष्टेषु, - इति स० शा० पुस्तकयोः पाठः । । दुर्विवाहेषु, - इति स० शा० पुस्तकयोः पाठः । । न सा दैवे च पित्र्ये च,- इति मु• पुस्तके पाठः । में कदाचन, - इति मु० पुस्तके पाठः ।
For Private And Personal