________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परराशरमाधवः
४५७
वर्णानुपू]णविवाह-नियममाह मनुः,
“षडानुपूाविप्रस्य क्षत्रस्य चतुरोऽवरान् । विट्यूद्रयोस्तु तानेव विद्याद्धान्नराक्षसान्"- इति ।
आदितः षड्विवाहा विप्रस्य धाः, आसुरादयश्चत्वारः पैशाचान्ताः क्षत्रियाणां धाः , राक्षसवर्ज न एव वैश्य-शूद्रयोरपि। एतेषां ब्राह्मादीनां मध्ये प्रशस्तानाह सएव,
"चतुरोव्राह्मणस्याद्यान् प्रशस्तान कवयो विदुः। राक्षसं क्षत्रियस्यैकमासुरं वैश्य-शूद्रयोः" - इति ॥
स्मृत्यन्तरेपि,
“चत्वारो ब्राह्मणस्याद्याः शस्ता गान्धर्व-राक्षसौ। राज्ञस्तथाऽऽसुरोवेश्ये यूद्रेचान्त्यस्तु गर्हितः"- इति ।
गहितो न कस्यापि प्रशस्त इत्यर्थः। अन्यविवाहालामे ब्राह्माणादीनां पैशाचमप्यनुजानाति संवतः,
“सर्वोपायैरसाध्या स्यात् सुकन्या पुरुषस्य या। चौयेणापि विवाहेन सा विवह्या रहः स्थिता"- इति ।
ब्राहादीनां फलमाह मनुः, -
“दशपूर्वान् परान् वंश्यानात्मानं चैकविंशकम् । वाही-पुत्रः सुकृतकृन्मोचयत्येनरः पितॄन् । दैवोदा-जः सुतश्चैव सप्तसप्त परावरान् । आर्षोढ़ा-जः सुतः स्त्रोंस्त्रीन् षट् षट् कायोढ़-जः सुतः ॥
* क्षत्रियादीनां, - इति मुः पुस्तके पाठः ।
For Private And Personal