________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४५६
पराशरमाधवः यज्ञ तु वितते सम्यगृत्विजे कर्मकुर्वते । अला.त्य सुतादानं दैवो धर्मः प्रचक्षते ॥ एकं गोमिथुनं देवो वरादादाय धर्मतः। कन्याप्रदानं विधिवदार्योधर्मः स उच्यते ॥ सहोमौ चरतां धर्ममिति वाचाऽनुभाष्य तु । कन्याप्रदानमभ्यय॑ प्राजापत्यो निधिःस्मृतः ॥ ज्ञातिभ्यो द्रविणं दत्वा कन्यायै च स्वशक्तितः । कन्या-प्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते ॥ इच्छयान्योन्य-संयोगः कन्यायाश्च वरस्य च । गान्धर्वः स च विज्ञ यो मैथुन्यः काम-सम्भवः ॥ हृत्वा छित्वा च मित्वा च क्रोशन्ती रुदती वलात् ।। प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते । सुप्तां मत्तां प्रमत्तां वा रहोयत्रीयमच्छति ।
स पापिष्ठो विवाहानां पैशाचः कथितोऽष्टमः' - इति । नारदीऽपि,
"ब्राह्मस्तु प्रथमस्तेषां प्राजापत्यस्तथा । परः। आर्षश्चैवाथ देवश्च सान्धर्वश्चासुरस्तथा ।। राक्षसोऽनन्तरस्तस्मात् पैशाचश्चाष्टमी मतः" - इति ।
* कन्यायाश्च, - इति स० शा० पुस्तकयोः । पाठा । iगृहात् ,- इति मु० पुस्तके पाठा । # वता, - इति स० शा० पुस्तकयोः पाठा । । पैशाचाचाष्टमोधमः, - इति शा० पुस्तके पाठः ।
For Private And Personal