SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ४८५ ननु, "असंस्कृतायाः"-इति वचने विवाह-रहिताया उत्तमलोकामावउक्तः, सोऽनुपपन्नः, विवाह-रहितानामपि ब्रह्मवाहिनीनामुपनयनाध्यायनादिभिः उत्तम लोक-सम्भवात्। अतएव हारीतेनोक्तम्,"द्विविधाः स्त्रियो ब्रह्मवादिन्यः सद्योवध्वश्च, तत्र वह्मवादिनीनामुपनयनमग्नीन्धनं वेदाध्ययन* स्वगृहे भिक्षाचा " - इति । वधूनां तूपस्थिते विवाहे कथञ्चिदुपनयनमात्रं कृत्वा विवाहः कार्यः, इति । मैवम् । तस्य कल्पान्तर-विषयत्वात् । तथाच यमः - पुरा कल्पे कुमारीणां मौओबन्धनमिष्यते। अध्यापनं च वेदानां सावित्री वचनं तथा ॥ पिता पितृव्यो भ्राता वा नैनामध्यापयेत परः। स्वगृहे चैव कन्याया भक्ष चय्या विधीयते। वर्जयेदजिनं चीरं जटा-धारणमेव च” - इति । "अष्टवर्षा भवेद्गगौरो' - इत्यादिना विवाह-काल उक्तः। अथ विवाहभेदा उच्यन्ते। तत्र मनुः, "चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान् । अष्टाविमान् समासेन स्त्री-विवाहान्निवोधत । ब्राह्मोदैवस्तथैवार्षः प्राजापत्यः तथाऽऽसुरः। गान्धर्वोराक्षसश्चैव पैशाचश्वाष्टमोमतः" - इति । एषां क्रमेण लक्षणमाह स एव, आच्छाद्य चार्चयित्वा च श्रुतशोलवते स्वयम् । आहूय दानं कन्याया ब्राह्मोधर्मः प्रकीर्तितः ॥ * वेदाध्ययन् ,- इति नास्ति स० पुस्तके । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy