SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ४८३ मुख्यानुकल्पभेदेन दातृ-विशेषानाह नारदः, “पिता दद्यात् स्वयं कन्या भ्राता वाऽनुमतः* पितुः। मातामहो मातुलश्च सकुल्यो वान्धवस्तथा ॥ माता त्वमावे सर्वेषां प्रकृतौ यदि वर्तते। तस्यामप्रकृतिस्थायां कन्यां दद्य : स्वजातयः ।। यदा तु नैव कश्चित् स्यात् कन्या राजानमाव्रजेत्" इति । याज्ञवल्क्योऽपि, पिता पितामहो भ्राता सकुल्यो जननी तथा। कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः। अप्रयच्छन् समाप्नोति भ्रणहत्यामृतावृतौ ॥ गम्यं त्वभावे दातृणां कन्या कुर्यात् स्वयंवरम्”- इति । गम्यं गमनाह सावण्यादिगुणयुक्त मित्यर्थः। तथाच नारदः, “सवर्णमनुरुपञ्च कुलशील-बल श्रुतैः । सह धर्म चरेत् तेन पुत्रांचोत्पादयेत्ततः"- इति । सवर्णं वरं प्राप्य,- इत्यध्याहृत्य योजनीयम् । तच्चासति रजो. दर्शने द्रष्टव्यम् । दृष्टे तु रजसि सत्खपि पित्रादिषु कञ्चित्कालं पितुः शासन परीक्ष्य तदुपेक्षणेन स्वयमेव वरं वर येत्। तदाह बौधायनः, - "त्रीणि वर्षाण्यतुमती काङ्क्षेत पितृशासनम् । ततश्चतुर्थे वर्षे तु विन्देत सदृशं पतिम् । अविद्यमाने सदृशे गुणहोनमपि श्रयेत्"- इति । * वाऽनुमताः, - इति स० सो० शा० पुस्तकेषु पाठः । । सजातयः, - इति पाठान्तरम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy