________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४२
पराशरमाधवः संवत्तॊऽपि,
“कामकाले तु संप्राप्ते सोमोभुङ्क्त तु कन्याकाम् । रजःकाले तु गन्धर्वा वह्निस्तु कुचदर्शने।
तस्मादुद्वाहयेत् कन्यां यावन्नर्तुमती भवेत्” - इति कन्याशब्देन लज्जाऽऽद्यभिज्ञान रहितवयोयुक्ता विवक्षिता। तथा च पुराणम् ,
“यावन्न लज्जिताऽङ्गानि कन्या पुरुष-सन्निधौ ।
योन्यादीनि न गूहेत तावद्भवति कन्यका" । संग्रहकारोऽपि,
“यावद्वालं न गृह्णाति यावत् क्रीडति पांशुभिः ।
यावदोषं न जानाति तावद्भवति कन्यका" । वयोविशेषेण दातुः फलविशेषमाह मरीचिः,
गौरी ददन्नाकपृष्टं वैकुण्ठं रोहिणीं ददत् ।
कन्यां ददद्ब्रह्मलोकं रौरवन्तु रजखलाम्” - इति । गौर्यादिशब्दार्थो यमेन दर्शितः,
"अष्टबर्षा भवेद् गौरी नववर्षा तु रोहिणी। दशमे कन्यका प्रोक्ता अत अध्वं रजखला" ॥
संवत्तोऽपि,
“अष्टवर्षा भवेद्गौरी नवमै लग्निका भवेत् !
दशमै कन्यका प्रोक्ता द्वादशे वृषली स्मृता' - इति । *"संवत्तोऽपि दत्यादिः, 'इति' इत्यन्तः ग्रन्थाक्कचिन्न दृश्यते । संग्रहकारोपि इत्यादि कन्यका इत्यन्तं नास्ति मुतितिरिकपुस्तकेषु ।
For Private And Personal