________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२ अ० आ०का० ]
पराशर माधवः
षण्डवदन्यानपि वर्जनीयान्नरानाह कात्यायनः, - "दूरस्थानामविद्यानां मोक्षमार्गानुसारिणाम् ।
शूराणां निर्द्धनानाञ्च न देया कन्यका बुधैः” इति ।
बौधायनोऽपि -
Acharya Shri Kailashsagarsuri Gyanmandir
कीदृशाय तर्हि देया, इत्यत आह मनुः,“उत्कृष्टायाभिरूपाय वराय सदृशाय च । अप्राप्तामपि तां तस्मै कन्यां दद्याद्विचक्षणः” - इति ॥
-
यत्त. यमेनोक्तम्, -
अप्राप्तामपीति अप्राप्त विवाह समय बालिकामपीत्यर्थः ।
“जन्मतो गर्भाधानाद्वा पञ्चमाब्दात् परं शुभम् । कुमारीणां तथा दानं मेखला वन्धनन्तथा* ॥” - इति ।
-
“दद्याद्गुणवते कन्यां नग्निकां ब्रह्मचारिणे ।
अपि वा गुणहीनाय नोपरुन्ध्याद् रजखलाम् ॥” - इति ।
“काममामरणातिष्ठेद्गृहे कन्यर्त्तुमत्यपि । नत्वेवैनां प्रयच्छेत गुणहोनाय कर्हिचित् ॥” - इति ।
For Private And Personal
तद्गुणवति सम्भवति गुणहोनाय कन्यां न दद्यादित्येवंपरम् न तु सर्वथा गुणहीन निषेध परम् । न चेत्. 'अपि वा गुणहीनाय' - इति बौधायनोक्तानुकल्पोनिर्विषयः स्यात् । 'ऋतुमत्यपि तिष्टेत्' इति वचन, उक्तरीत्या न स्वार्थे तात्पर्य्यवत् । यतः, 'नोपरुन्ध्याद्ररजखलाम्' - इत्येनेन विरुद्धयते । अतएव वसिष्ठोऽपि -
“प्रयच्छेन्नग्निकां कन्यां ऋतुकालभयात् पिता ।
ऋतुमत्या हि तिष्ठन्त्या दोषः पितरभृच्छति” - इति ।
* श्लोकोऽयं नास्ति मु० पुस्तके |
४८१
>