SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [१०,या का वति(१) धारणा-ध्यानसमाधि-त्रयमेकविषयं संयमः, इत्युच्यते(२) । शब्दार्थ-प्रत्ययेष्वन्योन्य-विभक्षु यः संयमः, तेनाशेष-शब्दादि-माक्षात्कारे सति पक्ष्यादिभाषाज्ञायन्ते, इति पतञ्जलिनाक्रम् ) । (१) तत्र एकाग्रेचेतसि, संयमविशेषात् योगशास्त्रोक्तेषु तेषु तेषु विधयेषु संयमात् नानाविधयोगैश्वर्यप्रादुर्भावोभवतीत्यर्थः। एतत् सर्वमपि पातञ्जले विभूतिपादे स्परम् । अत्र यथाक्रमं योगसूत्राणि । “देशबन्धश्चित्तस्य धारणा" (३,१सू)। यत्र देशे ध्ययं चिन्तनीयं तत्र देशविशेधे हृदयपुण्डरीकादौ चित्तस्य स्थापनं धारणेति सूत्रार्थः । “तत्र प्रत्ययकतानताध्यानम्” (३,२सू)। तस्मिन् देशे ध्येयगोचरप्रत्ययप्रवाहाध्यानमिति सूत्रार्थः। “तदेवार्थमात्रनिर्भासं खरूप शून्यमिवसमाधिः” (३,३सू०) ध्यानमेव ध्येयमानिभीसंसमाधिः। यदा तदेवध्यानं ध्येयाकारेण व साक्षिणिनिर्भासते नतु प्रत्ययाकारेण, तदाध्यानमेव समाधिरुच्यते इत्यर्थः। मात्रशब्द विवरणं खरूपश्रूष्ममिवेति । खं ध्यानं । तदानी ध्यानस्यापि सत्वात् इवशब्दः । (सोऽयं देशविशेषे समाधिर्योगाङ्गं ।) “एयभकत्रसंयमः" (३,४सू०)। धारणाध्यानसमाधित्रय मेकविधयश्चेत् संयम इत्युच्यते इति सूत्रार्थः। "शब्दार्थप्रत्ययानामितरतराध्यासात् संकरस्तत्प्रविभागसंयमात् सव्र्वभूतरुतज्ञानम्" (३, १७सू०) इति पातञ्जलसूत्रम् । शब्द-तदर्थतद्गोचरप्रत्ययानां वस्तुतः प्रविभक्तानामपि इतरत्रेतरस्याध्यासात् सबरोभवति, तत्प्रविभाग-विषयक-संयमात् साक्षात्कारपर्य्यन्तात् सर्वप्राणिनां प्राब्दज्ञानं योगिनः सम्पद्यते इति सूत्रार्थः। तत्र, गौरितिशब्दो गौरित्यर्थो गौरितिप्रत्यय इति सङ्करस्योदाहरम् । प्रविभागस्त्वमीयां श्वेतते इति श्वेत इति चैवमादिरीत्या प्राब्दभेदेपि श्वेतगुणरूपार्याभेदात् श्वेताकारप्रत्ययाभेदाच्च शब्दादर्थप्रत्ययाभिची। एवमेकस्मिमेव श्वेतगुणे, तदाकार-नाना-प्रत्ययोदयादर्थ-प्रत्यययोः परस्पर भेदः। तथा खखावस्थाभिः परिणम्यभाणाः शब्दार्थप्रत्यया न तुल्यकाला, नापि तुल्यदेशाः। शब्दोहाकाशे, प्रत्ययोबुद्धौ, अर्थस्तु श्वेतगुणादिः प्रासादादावित्यमीषां प्रविभागः । स्पष्ठमेतत् पातञ्जले विभूतिपादे । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy