________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२५०,श्रा०का०]
पराशरमाधवः।
४७३
उत्तरदेशे मातुल-संवन्धं कुर्वन् व्यति, न स्व-देशे। तथेतरउदीयहतरम्मिन् दक्षिणदेशे सीधु-पानादिकं कुर्वन् दुय्यति, न स्व-देशे । कुतः ? देश प्रामाण्यात् देश-निवन्धनवादाचारस्येत्यर्थः । तथा च देवलः,
“यस्मिन् देशे य श्राचारोन्याय-दृश्स्तु कल्पितः । म तस्मिन्नेव कर्तव्योन तु देशान्तरे स्मृतः ॥ यस्मिन् देशे पुरे ग्रामे त्रैविद्ये नगरेऽपिवा ।
योयत्र विहिताधर्मस्तं धर्म न विचालयेत्” इति । ननु, शिष्टाचार-प्रामाण्ये स्व-हिट-विवाहेाऽपि प्रसज्येत, प्रजापतेराचरणात् । तथा च श्रुतिः । “प्रजापतिः स्वां दुहितरमभ्यगात्।" -इति। मैवम् । “न देव चरितञ्चरत-इति न्यायात् । श्रतएव बौधायनः,
"अनुष्ठितन्तु यद्देवैर्मुनिभिर्यदनुष्ठितम् ।
नानुष्ठेयं मनुष्यैस्तदुक्तं कर्म समाचरेत्'--इति । तदेवं बाह्यादि-विवाह-व्यवस्थया देशंभेद-विषय-व्यवस्था च मातुल सुता-विवाहः 'न मपिण्डाम्'--इत्यादिशास्त्वादेव मिद्धः (१) । * निवन्धनत्वादा चार प्रामाण्यस्येत्यर्थः, इति स० शायुस्तक योः पाठः । + देशाचारः स्मृताभ्योः , इति मु. पस्त के पाठः । दुहितरमभ्यध्यायातू,--इति मु० पुस्तके पाठः ।
(१) अत्र तावदेवं महता प्रवन्धेन दाक्षिणात्यानां मातुलकन्या-परिणया
चारस्य शास्त्रीयत्वं प्रामाण्यश्च समर्थितम् । जैमिनीयन्यायमालायान्त खयमेव तादृशाचारस्य स्मृतिविरुद्धत्वमप्रामाण्यञ्च व्यवस्थापितम ।
तथा च न्यायमालायां प्रथमाध्यायस्य टतीयपादे पञ्चमाधिकरण । - 60
For Private And Personal